SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ स्याद् ॥५६॥ शादन्यत्रापि गन्धादिगुण उपलभ्यते, तथापि तेन न व्यभिचारः तदाश्रया हि गन्धादिपुद्गलाः, तेषां च | वैश्रसिक्या, प्रायोगिक्या वा गत्या गतिमत्त्वेन तदुपलम्भकघ्राणादिदेशं यावदागमनोपपत्तेरिति । अत एवाह-निष्पतिपक्षमेतदितिः एतद् निष्पतिपक्ष-बाधकरहितम् न हि दृष्टेऽनुपपन्नं नामेति न्यायात् । , ननु मन्त्रादीनां भिन्नदेशस्थानामप्याकर्षणोच्चाटनादिको गुणो योजनशतादेः परतोऽपि दृश्यत इत्यस्ति बाधकमिति चेत् । मैवं वोचः; स हि न खलु मन्त्रादीनां गुणः, किन्तु तदधिष्ठातृदेवतानाम् ; तासां: चाऽऽकर्षणीयोच्चाटनीयाऽऽदिदेशगमने कौतस्कुतोऽयमुपालम्भः ?। न जातु गुणा गुणिनमतिरिच्य वर्तन्त । इति । अथोत्तरार्द्ध व्याख्यायते- तथापीत्यादि; तथापि- एवं निःसपनं व्यवस्थितेऽपि तत्त्वे; अतत्त्ववादो-18 पहताः (अनाचार इत्यत्रेव नः कुत्सार्थत्वात् ) कुत्सिततत्त्ववादेन तदभिमताऽऽप्ताऽऽभासपुरुषविशेषप्रणीतेन 8 तत्त्वाऽऽभासप्ररूपणेनोपहताः-व्यामोहिताः, देहान् बहिः-शरीरव्यतिरिक्तेऽपि देशे,आत्मतत्त्वम्-आत्मरूपम् । पठन्ति- शास्त्ररूपतया प्रणयन्ते । इत्यक्षरार्थः । . भावार्थस्त्वयम्- आत्मा सर्वगतो न भवति, सर्वत्र तद्गुणाऽनुपलब्धेः, यो यः सर्वत्रानुपलभ्यमानगुणः स स सर्वगतो न भवति, यथा घटः, तथा चायम् , तस्मात् तथा; व्यतिरेके- व्योमादि । न चायमसिद्धो हेतुः- कायव्यतिरिक्तदेशे तद्गुणानां बुद्ध्यादीनां वादिना, प्रतिवादिना वाऽनभ्युपगमात् । तथा | च भः श्रीधरः- “सर्वगतत्वेऽप्यात्मनो देहप्रदेशे ज्ञातृत्वम् , नान्यत्र, शरीरस्योपभोगाऽऽयतनत्वात् , अन्यथा ॥५६॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.600050
Book TitleAnyayoga vyavaccheda dwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas T Seth, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy