________________
स्याद्०
॥५५॥
कृतकृत्यत्वात् । वीर्यान्तरायक्षयोपनतस्त्वस्त्येव प्रयत्नः, दानादिलब्धिवत् ; न च कचिदुपयुज्यते; कृतार्थत्वात् । धर्माधर्मस्तु पुण्यपापापरपर्याययोरुच्छेदोऽस्त्येव तदभावे मोक्षस्यैवायोगात् । संस्कारश्च मतिज्ञानविशेष एव; तस्य च मोहक्षयानन्तरमेव क्षीणत्वादभाव इति । तदेवं न संविदानन्दमयी च मुक्तिरिति युक्तिरिक्तेयमुक्तिः । इति काव्यार्थः ॥ ८ ॥
अथ ते वादिनः कायममाणत्वमात्मनः स्वयं संवेद्यमानमप्यपलप्य, तादृशकुशास्त्रशस्त्रसंपर्क विनष्टदृष्टयस्तस्य विभुत्वं मन्यन्ते, अतस्तत्रोपालम्भमाह
यत्रैव यो दृष्टगुणः स तत्र कुम्भादिवद् निष्प्रतिपक्षमेतत् । तथापि देहाद् बहिरात्मतत्त्वमतत्त्ववादोपहताः पठन्ति ॥ ९ ॥
यत्रैव-देशे, यः– पदार्थः; दृष्टगुणो, दृष्टाः - प्रत्यक्षादिप्रमाणतोऽनुभूताः, गुणा- धर्मा यस्य स तथा; सपदार्थः, तत्रैव - विवक्षितदेश एव, उपपद्यते (इति क्रियाऽध्याहारो गम्यः) (पूर्वस्यैवकारस्यावधारणार्थ स्यात्राप्यभिसम्बन्धात् तत्रैव नान्यत्रेत्यन्ययोगव्यवच्छेदः) । अमुमेवार्थ दृष्टान्तेन द्रढयति-कुम्भादिवदिति-- घटादिवत् ; यथा कुम्भादेर्यत्रैव देशे रूपादयो गुणा उपलभ्यन्ते, तत्रैव तस्यास्तित्वं प्रतीयते, नान्यत्रः एवमात्मनोऽपि गुणाश्चैतन्यादयो देह एव दृश्यन्ते, न बहिः, तस्मात् तत्प्रमाण एवायमिति । यद्यपि पुष्पादीनामवस्थानदे
Jain Education Intonal
For Private & Personal Use Only
॥५५॥
Finelibrary.org