________________
स्याद् ०
॥५२॥
| केवलं सुखमेव दुःखमूलस्य शरीरस्यैवाऽभावात् । सुखं त्वात्मस्वरूपत्वादवस्थितमेवः स्वस्वरूपावस्थानं हिं मोक्षः ; अत एव चाsशरीरमित्युक्तम् । आगमार्थश्चायमित्थमेव समर्थनीयः यत एतदर्थानुपातिन्येव स्मृतिरपि दृश्यते
“ सुखमात्यन्तिकं यत्र बुद्धिग्राह्यमतीन्द्रियम् । तं वै मोक्षं विजानीयाद् दुष्प्रापमकृताऽऽत्मभिः " ॥ १ ॥ न चायं सुखशब्दों दुःखाभावमात्रे वर्तते - मुख्यसुखवाच्यतायां बाधकाभावात् अयं रोगाद् विप्रमुक्तः सुखी जात इत्यादिवाक्येषु च सुखीति प्रयोगस्य पौनरुक्त्यप्रसङ्गाच्च दुःखाभावमात्रस्य - रोगाद् विप्रमुक्त इतीयतैव गतत्वात् ।
न च भवदुदीरितो मोक्षः पुंसामुपादेयतया संमतः ; को हि नाम - शिलाकल्पमपगत सकलसुखसंवेदनमात्मानमुपपादयितुं यतेत ; दुःखसंवेदनरूपत्वादस्य- सुखदुःखयोरेकस्याभावे परस्यावश्यम्भावात् । त एव त्वदुपहासः श्रूयते
" वरं वृन्दावने रम्ये क्रोष्टृत्वमभिवाञ्छितम् । न तु वैशेषिकीं मुक्ति गौतमो गन्तुमिच्छति " ॥ १ ॥ सोपाधिकसावधिकपरिमिताऽऽनन्दनिष्यन्दात् स्वर्गादप्यधिकं तद्विपरीताऽऽनन्दमम्लानज्ञानं च मो - क्षमाचक्षते विचक्षणाः । यदि तु जड: पाषाणनिर्विशेष एव तस्यामवस्थायामात्मा भवेत्, तदलमपवर्गेण; संसार एव धरमस्तु । यत्र तावदन्तराऽन्तराऽपि दुःखकलुषितमपि कियदपि सुखमनुभुज्यते, चिन्त्यतां
Jain Education International
For Private & Personal Use Only
॥५२॥
Ainelibrary.org