SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ स्याद्० ॥५१॥ तत्राऽऽद्यः पक्षः–सव्यभिचारः; अपरापरेषामुत्पादुकानां घटपटकटादीनां सन्तानत्वेऽप्यत्यन्तमनुच्छिद्यमानत्वात् । अथ द्वितीयः पक्षः, तर्हि तादृशं सन्तानत्वं प्रदीपे नास्तीति साधनविकलो दृष्टान्तः । परमाणुपाकजरूपादिभिश्च व्यभिचारी हेतुः तथाविधसन्तानत्वस्य तत्र सद्भावेऽप्यत्यन्तोच्छेदाभावात् । अपि च सन्तानत्वमपि भविष्यति, अत्यन्तानुच्छेदश्च भविष्यति विपर्यये बाधकप्रमाणाभावात्; इति संदिग्धविपक्षव्यावृत्तिकत्वादप्यनैकान्तिकोऽयम् । किञ्च स्याद्वादवादिनां नास्ति कचिदत्यन्तमुच्छेदः, द्रव्यरूपतया स्थास्तूनामेव सतां भावानामुत्पादव्यययुक्तत्वात् इति विरुद्धश्व । इति नाधिकृतानुमानाद् बुद्ध्यादिगुणोच्छेदरूपा सिद्धिः सिध्यति । " नापि “ न हि वै सशरीरस्य " इत्यादेरागमात् ; स हि - शुभाशुभादृष्टपरिपाकजन्ये सांसारिकप्रियाप्रिये परस्परानुषक्ते अपेक्ष्य व्यवस्थितः । मुक्तिदशायां तु सकलादृष्टक्षयहेतुकमैकान्तिकमात्यन्तिकं च केवलं प्रियमेव, तत्कथं प्रतिषिध्यते । आगमस्य चायमर्थः- सशरीरस्य - गतिचतुष्टयान्यतमस्थानवर्तिन आत्मनः, प्रियाप्रिययोः- परस्परानुषक्तयोः सुखदुःखयोः, अपहतिः; अभावो नास्तीति; अवश्यं हि तत्र सुखदुःखाभ्यां भाव्यम्; ( परस्परानुषक्तत्वं च समासकरणादभ्युद्यते ) । अशरीरं - मुक्तात्मानं (वा - शब्दस्यैवकारार्थत्वात् ) अशरीरमेव; वसन्तं- सिद्धिक्षेत्रमध्यासीनं, प्रियाप्रिये - परस्परानुषक्ते सुखदुःखे, न स्पृशतः । इदमत्र हृदयम् - यथा किल संसारिणः सुखदुःखे परस्परानुषक्तं स्यातां न तथा मुक्तात्मनः, किन्तु Jain Education International For Private & Personal Use Only ॥५१॥ www.jainelibrary.org
SR No.600050
Book TitleAnyayoga vyavaccheda dwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas T Seth, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy