________________
स्याद्०
॥५०॥
स्यापि चैतन्ययोगात् चेतनोऽहमिति प्रतिपत्तेरनन्तरमेव निरस्तत्वात् इत्यचेतनत्वं सिद्धम् - आत्मनो जडस्यार्थपरिच्छेदं पराकरोतिः तं पुनरिच्छता - चैतन्यस्वरूपताऽस्य स्वीकरणीया ।
ननु ज्ञानवानहमिति प्रत्ययादात्मज्ञानयोर्भेदः, अन्यथा धनवानिति प्रत्ययादपि धनधनवतोर्भेदाभावानुषङ्गः । तदसत् ; यतो ज्ञानवानहमिति नाऽऽत्मा भवन्मते प्रत्येति, जडत्वैकान्तरूपत्वात्, घटवत्। | सर्वथा जडश्च स्याद्-आत्मा, ज्ञानवानहमितिप्रत्ययश्च स्याद् - अस्य विरोधाभावात्; इति मा निर्णैषीः । तस्य तथोत्पत्त्यसम्भवात् । ज्ञानवानहमिति हि प्रत्ययो न - अगृहीते ज्ञानाख्ये विशेषणे, विशेष्ये चाऽऽत्मनि जातूत्पद्यते; स्वमतविरोधात् ; " नागृहीतविशेषणा विशेष्ये बुद्धिः " इति वचनात् ।
गृहीतयोस्तयोरुत्पद्यत इति चेत्- कुतस्तद्गृहीतिः ? । न तावत् स्वतः स्वसंवेदनाऽनभ्युपगमात् । स्वसंविदिते ह्यात्मनि, ज्ञाने च, स्वतः सा युज्यते; नान्यथाः सन्तानान्तरवत् । परतश्चेत् ; तदपि ज्ञानान्तरं विशेष्यंनागृहीते ज्ञानत्वाविशेषणे, ग्रहीतुं शक्यम् । गृहीते हि घटत्वे घटग्रहणमिति ज्ञानान्तरात् तद्ग्रहणेन भाव्यम् ; इत्यनवस्थानात् कुतः प्रकृतप्रत्ययः । तदेवं नाऽऽत्मनो जडस्वरूपता संगच्छते; तदसङ्गतौ च चैतन्यमौपाधिकमात्मनोऽन्यदिति वाङ्मात्रम् ।
तथा यदपि न संविदानन्दमयी च मुक्तिरिति व्यवस्थापनाय अनुमानमवादि - सन्तानत्वादिति; तत्राभिधीयतेते ननु किमिदं सन्तानत्वं - स्वतन्त्रम् - अपरापरपदार्थोत्पत्तिमात्रं वा, एकाश्रयाऽपरापरोत्पत्तिर्वा ? ।
Jain Education Internal
For Private & Personal Use Only
॥५०॥
Jainelibrary.org