SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ स्याद् ॥४५॥ नेतरत्र त्रये ?, इति । ___ अनुवृत्तिप्रत्ययाऽभावाद् न सामान्याऽऽदित्रये सत्तायोग इति चेत् । न; तत्राप्यनुवृत्तिप्रत्ययस्यानिवार्यत्वात् । पृथिवीत्वगोत्वघटत्वादिसामान्येषु सामान्य सामान्यमिति ; विशेषेष्वपि बहुत्वाद्-अयमपि विशेषोऽय-18 मपि विशेष इति; समवाये च प्रागुक्तयुक्त्या तत्तदवच्छेदकभेदाद्-एकाकारमतीतेरनुभवात् । स्वरूपसत्त्वसाधर्येण सत्ताऽध्यारोपात् सामान्यादिष्वपि सत् सदित्यनुगम इति चेत् , तर्हि मिथ्याप्रत्ययोज्यमापद्यते । अथ भिन्नस्वभावेष्वेकानुगमो मिथ्यैवेति चेद्, द्रव्यादिष्वपि सत्ताऽध्यारोपकृत एवास्तु प्रत्ययानुगमः। असति मुख्येऽध्यारोपस्याऽसम्भवाद्-द्रव्यादिषु मुख्योऽयमनुगतः प्रत्ययः, सामान्यादिषु तु गौण इति चेत् । न, विपर्ययस्यापि शक्यकल्पनत्वात् । सामान्यादिषु बाधकसम्भवाद्-न मुख्योऽनुगतः प्रत्ययः, द्रव्यादिषु तु तदभावाद् मुख्य इति चेन्ननु | किमिदं वाधकम् । अथ सामान्येऽपि सत्ताऽभ्युपगमे-अनवस्था; विशेषेषु पुनः सामान्यसद्भावे-स्वरूपहानिः समवायेऽपि सत्ताकल्पने-तवृत्त्यर्थ सम्बन्धान्तराऽभाव इति बाधकानीति चेत् । न सामान्येऽपि सत्ताकल्पने यद्यनवस्था, तर्हि कथं न सा द्रव्यादिषु?; तेषामपि स्वरूपसत्तायाः प्रागेव विद्यमानत्वात् । विशेषेषु पुनः सत्ताऽभ्युपगमेऽपि, न स्वरूपहानिः; स्वरूपस्य प्रत्युतोत्तेजनात् ; निःसामान्यस्य विशेषस्य कचिदप्यनुपल- 1 म्भात् । समवायेऽपि समवायत्वलक्षणायाः स्वरूपसत्तायाः स्वीकार उपपद्यत एवाविष्वग्भावात्मकः सम्ब ॥४५॥ Jain Education in t onal For Private & Personal Use Only C hinelibrary.org
SR No.600050
Book TitleAnyayoga vyavaccheda dwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas T Seth, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy