________________
स्याद्०
॥४०॥
उत्क्षेपणत्वादिकं ज्ञेयम् ।
तत्र सत्ता- द्रव्यगुणकर्मभ्योऽर्थान्तरं कया युक्त्या १, इति चेद् उच्यते । न द्रव्यं-सत्ता, द्रव्यादन्येत्यर्थः एकद्रव्यवत्त्वाद्-एकैकस्मिन् द्रव्ये वर्तमानत्वादित्यर्थः द्रव्यत्ववत् - यथा द्रव्यत्वं-नवसु द्रव्येषु प्रत्येकं वर्तमानं द्रव्यं न भवति, किन्तु सामान्यविशेषलक्षणं द्रव्यत्वमेव ; एवं सत्ताऽपि । वैशेषिकाणां हि अद्रव्यं वा द्रव्यम्, अनेकद्रव्यं वा द्रव्यम् । तत्राऽद्रव्यं द्रव्यम्--आकाशः, कालो, दिगाऽऽत्मा, मनः, परमाणवः;अनेकद्रव्यं तु-दयणुकादिस्कन्धाः; एकद्रव्यं तु द्रव्यमेव न भवति; एकद्रव्यवती च सत्ता, इति द्रव्यलक्षणविलक्षणत्वाद् न द्रव्यम् । एवं न गुणः-- सत्ता ; गुणेषु भावाद्, गुणत्ववत् । यदि हि सत्ता गुणः स्याद् न तर्हि गुणेषु वर्तेत ; निर्गुणत्वाद् गुणानाम् ; वर्तते च गुणेषु सत्ता; सन् गुण इति प्रतीतेः । तथा न सत्ता--कर्म कर्मसु भावात् कर्मत्ववत् । यदि च सत्ता कर्म स्याद् न तार्ह कर्मसु वर्तेत; निष्कर्मत्वात् कर्मणाम् ; वर्तते च कर्मसु भावः सत् कर्मेति प्रतीतेः; तस्मात् पदार्थान्तरं सत्ता ।
तथा विशेषाः-नित्यद्रव्यवृत्तयः, अन्त्याः- अत्यन्तव्यावृत्तिहेतवः, ते द्रव्यादिवैलक्षण्यात् पदार्थान्तरम् । तथा च प्रशस्तकरः--"अन्तेषु भवा अन्त्याः; स्वाश्रयविशेषकत्वाद् विशेषाः । विनाशाऽऽरम्भरहितेषु नित्यद्रव्येष्वऽवाकाशकालदिगाऽऽत्ममनस्तु- प्रतिद्रव्यमेकैकशो वर्तमाना अत्यन्तव्यावृत्तिबुद्धिहेतवः । यथाऽस्मदादीनां गवा|दिष्वश्वादिभ्यस्तुल्यऽऽकृतिगुणक्रियाऽवयवोपचयाऽवयवविशेषसंयोगनिमित्ता प्रत्ययव्यावृत्तिर्दृष्टा-गौः शुक्लः
Jain Education Intional
For Private & Personal Use Only
॥४०॥
whelibrary.org