SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ स्याद् व्याख्या-वैशेषिकाणां द्रव्यगुणकर्मसामान्यविशेषसमवायाख्याः पद् पदार्थास्तत्वतयाऽभिप्रेताः; तत्र || | पृथिव्यापस्तेजो वायुराकाशः कालो दिमात्मा मन इति नव द्रव्याणि । गुणाश्चतुर्विंशतिः, तयथा-'रूपरस- | ॥३९॥ गन्धस्पर्शसंख्यापरिमाणानि पृथक्त्वं संयोगविभागौ परत्वाऽपरत्वे बुद्धिः सुखदुःखे इच्छाद्वेषौ प्रयतश्च' इति | सूत्रोक्ताः सप्तदश । चशब्दसमुच्चिताश्च सप्त-द्रवत्वं, गुरुत्वं, संस्कारः, स्नहो, धर्माधर्मों, शब्दश्च । इत्येवं चतुर्वि| शतिर्गणाः। संस्कारस्य वेगभावनास्थितिस्थापकभेदाद त्रैविध्येऽपि-संस्कारत्वजात्यपेक्षया एकत्वात. शौर्योदाकार्याऽऽदीनां चात्रैवान्तर्भावाद् नाऽऽधिक्यम् । कर्माणि पश्च, तद्यथा- उत्क्षेपणमवक्षेपणमाकुश्चनं प्रसारणं गमन| मिति; गमनग्रहणाद्-- भ्रमणरेचनस्यन्दनाद्यविरोधः। - अत्यन्तव्यावृत्तानां पिण्डानां यतः कारणाद्-अन्योऽन्यस्वरूपानुगमः प्रतीयते,तदनुवृत्तिप्रत्ययहेतुः सामा| न्यम् । तच्च द्विविध-परमपरं च। तत्र परं-सत्ता,भावो,महासामान्यमिति चोच्यते ; द्रव्यत्वाद्यवान्तरसामान्या- | 18| sपेक्षया महाविषयत्वात् । अपरसामान्यं च-द्रव्यत्वादि । एतच्च सामान्यविशेष इत्यपि व्यपदिश्यते; तथाहि-- द्रव्यत्वं नवसु द्रव्येषु वर्तमानत्वात् सामान्यम् ; गुणकर्मभ्यो व्यावृत्तत्वाद् विशेषः, ततः कर्मधारये सामान्यविशेष इति । एवं द्रव्यत्वाद्यपेक्षया पृथिवीत्वादिकमपरं, तदपेक्षया घटत्वादिकम् । एवं चतुर्विशतौ गुणेषु वृत्तेर्गुणत्वं सामान्यम् ; द्रव्यकर्मभ्यो व्याहत्तेश्च विशेषः। एवं गुणत्वापेक्षया रूपत्वादिकं, तदपेक्षया नीलत्वादि- ॥३९॥ कम् । एवं पञ्चसु कर्मसु वर्तनात् कर्मत्वं सामान्यम् ; द्रव्यगुणेभ्यो व्यावृत्तत्वाद् विशेषः । एवं कर्मत्वापेक्षया || Jain Education & Lational For Private & Personal Use Only www.jainelibrary.org
SR No.600050
Book TitleAnyayoga vyavaccheda dwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas T Seth, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy