SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ स्यादू० ||३४|| . किञ्च, प्रेक्षावतां प्रवृत्तिः स्वार्थकारुण्याभ्यां व्याप्ता ; ततञ्चायं जगत्सर्गे व्याप्रियते - स्वार्थात्, कारुण्याद् वा ? । न तावत् स्वार्थात्; तस्य कृतकृत्यत्वात् । न च कारुण्यात् ; परदुःखप्रहाणेच्छा हि कारुण्यम् ; ततः प्राक् सर्गाद्- जीवानामिन्द्रियशरीरविषयानुत्पत्तौ दुःखाभावेन कस्य प्रहाणेच्छा कारुण्यम् । सर्वोत्तरकाले तु - दुःखनोऽवलोक्य कारुण्याऽभ्युपगमे दुरुतरमितरेतराऽऽश्रयम् - कारुण्येन सृष्टिः, सृष्टया च कारुण्यम् इति नास्य जगत्कर्तृत्वं कथमपि सिद्ध्यति । तदेवमेवंविधदोषकलुषिते पुरुषविशेषे यस्तेषां सेवाहेवाकः- स खलु केवलं बलवन्मोहविडम्बनापरिपाकइति । अत्र च यद्यपि मध्यवर्तिनो नकारस्य घण्टालालान्यायेन योजनादर्थान्तरमपि स्फुरति - यथा 'इमाः कुहेवा कविडम्बनास्तेषां न स्युर्येषां त्वमनुशासकः' इति ; तथापि सोऽर्थः सहृदयैर्न हृदये धारणीयः; अन्ययोगव्यवच्छेदस्याधिकृतत्वात् । इति काव्यार्थः ॥ ६ ॥ 'अथ चैतन्यादयो रूपादयश्च धर्मा आत्मादेर्घटादेश्व धर्मिणोऽत्यन्तं व्यतिरिक्ता अपि समवायसम्ब न्धेन संबद्धाः सन्तो धर्मधर्मिव्यपदेशमश्नुवते इति तन्मतं दूषयन्नाह न धर्मधर्मित्वमतीवभेदे, वृत्त्याऽस्ति चेद्, न त्रितयं चकास्ति । इदमित्यस्ति मतिश्व वृत्तौ न गौणभेदो, ऽपि च लोकबाधः ॥७॥ Jain Education tional For Private & Personal Use Only ॥३४॥ www.jainelibrary.org
SR No.600050
Book TitleAnyayoga vyavaccheda dwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas T Seth, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy