SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ स्याद् ॥३५॥ व्याख्या-धर्मधर्मिणोरतीवभेदे-अतीवेत्यत्र-इवशब्दो वाक्यालङ्कारः तं च पायोऽतिशब्दात् , किंवृत्तेश्च प्रयुञ्जते शाब्दिकाः यथा-"आवर्जिता किञ्चिदिव स्तनाभ्याम्""उद्वृत्तः क इव सुखाऽऽबहः परेषाम्" इत्यादि। ततश्च धर्मधर्मिणोः- अतीवभेदे-एकान्तभिन्नत्वेऽङ्गीक्रियमाणे, स्वभावहानेर्धर्मधर्मित्वं न स्यात्-अस्य धर्मिण इमे धर्माः, एषां च धर्माणामयमाश्रयभूतो धर्मी-इत्येवं सर्वप्रसिद्धो धर्मधर्मिव्यपदेशो न प्रामोति । तयोरत्यन्तभिनत्वेऽपि तत्कल्पनायां- पदार्थान्तरधर्माणामपि विवक्षितधर्मधर्मित्वाऽऽपत्तेः। - एवमुक्ते सति, परः प्रत्यवतिष्ठते- वृत्त्याऽस्तीति-- अयुतसिद्धानामाधार्याऽऽधारभूतानामिहप्रत्ययहेतुः सम्बन्धः समवायः स च समवयनात् समवाय इति, द्रव्यगुणकर्मसामान्यविशेषेषु पञ्चसु पदार्थेषु वर्तनाद् वृत्तिरिति चाख्यायते । तया वृत्त्या- समवायसम्बन्धेन, तयोर्धमधर्मिणोः- इतरेतरविनिझुण्ठितत्वेऽपि धर्मधर्मिव्यपदेश इष्यते ; इति नाऽनन्तरोक्तो दोष इति । - अत्राऽऽचार्यः समाधत्ते-चेदिति-यद्येवं तव मतिः- सा प्रत्यक्षप्रतिक्षिप्ता; यतो न त्रितयं चकास्ति अयं धर्मी, इमे चाऽस्य धर्माः, अयं चैतत्सम्बन्धनिबन्धनं समवाय इत्येतत् त्रितयं-वस्तुत्रयं न चकास्ति-ज्ञानविषयतया ने प्रतिभासते । यथा किल शिलाशकलयुगलस्य मिथोऽनुसन्धायकं रालादिद्रव्यं तस्मात् पृथक् तृतीयतया प्रतिभासते ; नैवमत्र समवायस्याऽपि प्रतिभानम्, किन्तु द्वयोरेव धर्मधर्मिणोः इति शपथपत्यायनीयोऽयं समवाय इति भावार्थः । ॥३५॥ Jain Education Inte rnal For Private & Personal Use Only www Delibrary.org
SR No.600050
Book TitleAnyayoga vyavaccheda dwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas T Seth, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy