SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ स्याद् ० ॥३३॥ । भावोऽतत्स्वभावो वा । प्रथमविधायां - जगनिर्माणात् कदाचिदपि नोपरमेत; तदुपरमं तत्स्वभावत्वहानिः । एवं च सर्गक्रियाया अपर्यवसानाद् - एकस्यापि कार्यस्य न सृष्टिः । घटो हि स्वारम्भक्षणादारभ्य परिसमाप्तेरुपान्त्य - क्षणं यावद् निश्रयनयाभिप्रायेण न घटव्यपदेशमासादयति ; जलाऽऽहरणाद्यर्थक्रियायामसाधकतमत्वात् अतत्स्वभावपक्षे तु- न जातु जगन्ति सृजेत् तत्स्वभावाऽयोगाद्, गगनवत् । अपि च तस्यैकान्त नित्यस्वरूपत्वे सृष्टिवत् संहारोऽपि न घटते । नानारूपकार्थ करणेऽनित्यत्वाऽऽपत्तेः । स हि येनैव स्वभावेन जगन्ति सृजेत् तेनैव तानि संहरेत्, स्वभावान्तरेण वा । तेनैव चेत्; सृष्टिसंहारयोर्यौगपद्यप्रसङ्गः, स्वभावाभेदात् एकस्वभावात् कारणादनेकस्वभावकार्योत्पत्तिविरोधात् । स्वभावाऽन्तरेण चेद् नित्यत्वहानिः स्वभावभेद एव हि लक्षणमनित्यतायाः । यथा पार्थिवशरीरस्याऽऽहार परमाणुसहकृतस्य प्रत्यहमपूर्वा पूर्वोत्पादेन स्वभावभेदादनित्यत्वम् । इष्टश्च भवतां सृष्टिसंहारयोः शम्भौ स्वभावभेदः- रजोगुणाऽऽत्मकतया सृष्टौ, तमोगुणाऽऽत्मकतया संहरणे, साविकतया च स्थितौ तस्य व्यापारस्वीकारात् । एवं चावस्थाभेदः; तद्भेदे चावस्थावतोऽपि भेदाद् नित्यत्वक्षतिः । अथास्तु नित्यः, तथापि कथं सततमेव सृष्टौ न चेष्टते ।। इच्छावशात् चेद्ः ननु ता अपीच्छाः स्वसत्तामात्रनिबन्धनाऽऽत्मलाभाः सदैव किं न प्रवर्तयन्तीति स एवोपालम्भः । तथा शम्भोरष्टगुणाऽधिकरणत्वे, कार्यभेदाऽनुमेयानां तदिच्छानामपि विषमरूपत्वाद् नित्यत्वहानिः केन वार्यते १, इति । '१ बुद्धीच्छा प्रयत्नसंख्यापरिमाणपृथक्त्वसंयोगविभागाख्याऽष्टगुणाधिकरणत्वे । Jain Education Intional For Private & Personal Use Only ॥३३॥ nelibrary.org
SR No.600050
Book TitleAnyayoga vyavaccheda dwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas T Seth, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy