SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ स्याद्० ॥३१॥ Jain Education ऽभ्युपगमे च तस्य पूर्वोक्ता एव दोषाः । अन्यकृतचेत्, सोऽन्यः सर्वज्ञोऽसर्वज्ञो वा ? । सर्वज्ञत्वे - तस्य द्वैताऽऽपत्या प्रागुक्त तदेकत्वाभ्युपगमबाधः ; तत्साधकप्रमाणचर्चायामनवस्था तव । असर्वज्ञश्चेत्- कस्तस्य वचसि विश्वासः ? । अपरं च भवदभीष्ट आगमः प्रत्युत तत्प्रणेतुरसर्वज्ञत्वमेव साधयति ; पूर्वाधारविरुद्धाऽर्थवचनोपेतत्वाद् । तथाहि-- “ न हिंस्यात् सर्वभूतानि " इति प्रथममुक्त्वा, पश्चात् तत्रैव पठितम् - G “ षट्शतानि नियुज्यन्ते पशूनां मध्वमेऽहनि । अश्वमेधस्य वचनाद् न्यूनानि पशुभिस्त्रिभिः " । तथा " अग्नीषोमीयं पशुमालभेत " " सप्तदश प्राजापत्यान् पशूनालभेत " इत्यादिवचनानि कथमिव न पूर्वापरविरोधमनुरुध्यन्ते । तथा--" तानृतं ब्रूयात्" इत्यादिनाऽनृतभाषणं प्रथमं निषिध्य, १. पश्चाद् " ब्राह्मणार्थेऽनृतं ब्रूयात् " इत्यादि । तथा " न नर्मयुक्तं वचनं हिनस्ति न स्त्रीषु राजन्न विवाहकाले । प्राणात्यये सर्वधनापहारे पञ्चाऽनृतान्याहुरपातकानि " ॥ १ ॥ तथा " परद्रव्याणि लोष्टवत्" इत्यादिना अदत्ताऽऽदानमनेकधा निरस्य, पश्चादुक्तम् - " यद्यपि ब्राह्मणो हठेन परकीयमादत्ते, छलेन वा, तथापि तस्य नादत्ताऽऽदानम् ; यतः सर्वमिदं ब्राह्मणेभ्यो दत्तम् ; ब्राह्मणानां तु दौर्बल्याद् दृषलाः परिभुञ्जते; तस्मादपहरन् ब्राह्मणः स्वमादत्ते, स्वमेव ब्राह्मणो भुते, स्वं वस्ते, स्वं द ational For Private & Personal Use Only ॥३१॥ helibrary.org
SR No.600050
Book TitleAnyayoga vyavaccheda dwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas T Seth, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy