SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ स्याद्० ॥२५॥ ग्रहा इत्यर्थः त एव विडम्बना:- विचारचातुरीबाह्यत्वेन तिरस्काररूपत्वाद् विगोपकप्रकाराः स्युः - भवेयुः; तेषां - प्रामाणिकापसदानां; येषां हे स्वामिन् ! त्वं नानुशासकः-न शिक्षादाता । तदभिनिवेशानां विडम्बनारूपत्वज्ञापनार्थमेव पराभिप्रेतपुरुषविशेषणेषु प्रत्येकं तच्छब्दप्रयोगमसूयागर्भमाविर्भावयाञ्चकार स्तुतिकारः; तथा चैकमेव निन्दनीयं प्रति वक्तारो वेदन्ति - स मूर्खः, स पापीयान् स दरिद्र इत्यादि । त्वमित्येकवचनसंयुक्तयुष्मच्छब्दप्रयोगेण- परमेशितुः परमकारुणिकतयाऽनपेक्षितस्वपरपक्षविभागमद्वितीयं हितोपदेशकत्वं ध्वन्यते । अतोऽत्रयमाशयः - यद्यपि भगवानविशेषेण सकलजगज्जन्तुजात हिताऽऽवहां सर्वेभ्य एव देशनावाच - माचष्टे, तथापि सैव केषाञ्चिद् निचितनिकाचितंपापकर्मकलुषिताऽऽत्मनां रुचिरूपतया न परिणमते; अपुनर्वन्धकाऽऽदिव्यतिरिक्तत्वेनायोग्यत्वात् । तथा च कादम्बर्यां बाणोऽपि वभाण - " अपगतमले हि मनास स्फटिकमणाविव रजनिकरगभस्तयो विशन्ति सुखमुपदेशगुणाः; गुरुवचनममलमपि सलिलमिव महदुपजनयति श्रवणस्थितं शूलमभव्यस्य " इति । अतो वस्तुवृत्त्या न तेषां भगवाननुशासक इति । न चैतावता जगद्गुरोरसामर्थ्यसम्भावना । न हि कालदष्टमनुज्जीवयन् समुज्जीवितेतरदष्टको विषभि१ 'चैवमेव' इत्यपि पाठः । २ ' भवन्ति ' इति च पाठः । ३ 'विभागमितरशास्तॄणामसाधारणम्' एवमपि पाठो दृश्यते । ४ पापं न तीव्रभावात् करोतीत्यादिलक्षणोऽपुनर्वन्धकः, अस्य च पुनलपरावर्तमध्य एवं मुक्तिः । Jain Education International For Private & Personal Use Only ॥२५॥ www.jainelibrary.org
SR No.600050
Book TitleAnyayoga vyavaccheda dwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas T Seth, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy