SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ स्याद् अथ यच्चाक्षुषं, तत्सर्व स्वप्रतिभासे आलोकमपेक्षते, न चैवं तमः, तत्कथं चाक्षुषम् । नैवम्। उलूकादी 8 नामालोकमन्तरेणापि तत्पतिभासात् । यस्त्वस्पदादिभिरन्यच्चाक्षुषं घटादिकमालोकं विना नोपलभ्यते, ॥१५॥ तैरपि तिमिरमालोकयिष्यते ; विचित्रत्वाद् भावानाम् । कथमन्यथा पीतश्वेतादयोऽपि स्वर्णमुक्ताफलाद्या आलोकापेक्षदर्शनाः, प्रदीपचन्द्रादयस्तु प्रकाशान्तरनिरपेक्षाः ।। इति सिद्धं तमश्चाक्षुषम् ।। रूपवत्त्वाच्च स्पर्शवत्वमपि प्रतीयते ; शीतस्पर्शप्रत्ययजनकत्वात् । यानि त्वनिविडावयवत्वमप्रतिघातित्वमनुद्भूतस्पर्शविशेषत्वमप्रतीयमानखण्डावयविद्रव्यप्रविभागत्वमित्यादीनि तमसः पौगलिकत्वनिषेधाय परैः साधनान्युपन्यस्तानि तानि प्रदीपप्रभादृष्टान्तेनैव प्रतिषेध्यानि; तुल्ययोगक्षेमत्वात् । न च वाच्यं तैजसाः परमाणवः कथं तमस्त्वेन परिणमन्त इति ?; पुद्गलानां तत्तत्सामग्रीसहकृतानां विसदृशकार्योत्पादकत्वस्यापि दर्शनात् । दृष्टो ह्याट्रैन्धनसंयोगवशाद् भास्वररूपस्यापि वढेरभास्वररूपधृमरूपकार्योत्पादः । इति सिद्धो नित्याऽनित्यः प्रदीपः। यदाऽपि निर्वाणादाग देदीप्यमानो दीपस्तदापि नवनव| पर्यायोत्पादविनाशभाक्त्वात् , प्रदीपत्वान्वयाच्च नित्यानित्य एव । ___ एवं व्योमापि-उत्पादव्ययध्रौव्याऽऽत्मकत्वाद् नित्यानित्यमेव । तथाहि-अवगाहकानां जीवपुद्गलानामवगाहदानोपग्रह एव तल्लक्षणम् : "अवकाशदमाकाशम्" इति वचनात् । यदा चावगाहका जीवपुद्गलाः प्रयो १ उपकारः। २ पुरुषशक्तितः । ॥१५॥ . . . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600050
Book TitleAnyayoga vyavaccheda dwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas T Seth, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy