________________
स्याद्०
॥१४॥
वाचकमुख्य:- “ उत्पादव्ययधौव्ययुक्तं सत् " इति । समस्वभावत्वं कुतः ?, इति विशेषणद्वारेण हेतुमाहस्याद्वादमुद्राऽनतिभेदि - स्यादित्यव्ययमनेकान्तद्योतकम्, ततः स्याद्वाद :- अनेकान्तवादः, नित्यानित्याद्यनेकधर्मशबलैकवस्त्वभ्यु भ्युपगम इति यावत् । तस्य मुद्रा-मर्यादा, तां, नाऽतिभिनत्ति - नातिक्रामतीति स्याद्वादमुद्राऽनतिभेदि । यथा हि न्यायैकनिष्ठे राजनि राज्यश्रियं शासति सति सर्वाः प्रजास्तन्मुद्रां नातिवर्तितुमीशते, तदतिक्रमे तासां सर्वार्थहानिभावात् । एवं विजयिनि निष्कण्टके स्याद्वादमहानरेन्द्रे तदीयमुद्रां सर्वेऽपि पदानातिक्रामन्ति तदुल्लङ्घने तेषां स्वरूपव्यवस्थाहानिप्रसक्तेः ।
सर्ववस्तूनां समस्वभावत्वकथनं च पराभीष्टस्यैकं वस्तु व्योमादि - नित्यमेव, अन्यच्च प्रदीपादि - अनित्यमेव इति वादस्य प्रतिक्षेपबीजम् । सर्वे हि भावा द्रव्यार्थिकनयापेक्षया नित्याः, पर्यायार्थिकनयादेशात् पुनरनित्याः । तत्रैकान्ताऽनित्यतया परैरङ्गीकृतस्य प्रदीपस्य तावन्नित्याऽनित्यत्वव्यवस्थापने दिमात्रमुच्यते-
तथाहि - प्रदीपपर्यायापन्नास्तैजसाः परमाणवः स्वरसतस्तैलक्षयाद्, वाताभिघाताद् वा ज्योतिष्पर्यायं परित्यज्य तमोरूपं पर्यायान्तरमासादयन्तोऽपि नैकान्तेनानित्याः; पुद्गलद्रव्यरूपतयाऽवस्थितत्वात् तेषाम् । नह्येतावतैवाऽनित्यत्वं यावता पूर्वपर्यायस्य विनाशः, उत्तरपर्यायस्य चोत्पादः । न खलु मृद्द्रव्यं स्थासककोश- कुशूल शिवक घटाद्यवस्थान्तराण्यापद्यमानमध्येकान्ततो विनष्टम् ; तेषु मृद्द्रव्यानुगमस्याऽऽबालगोपालं प्रतीतत्वात् । न च तमसः पौगलिकत्वमसिद्धम् ; चाक्षुषत्वान्यथाऽनुपपत्तेः ; प्रदीपालोकवत् ।
Jain Education International
For Private & Personal Use Only
॥ १४ ॥
www.jainelibrary.org