SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ स्याद् रेणाऽऽत्मतत्त्वं स्वरूपं यस्य तत्तथा, तस्मात् । यतः--पदार्थे वाविष्वग्भावन सामान्यविशेषौ वर्तेते; तैश्च तौ तेभ्यः ॥१३॥ परत्वेन कल्पितौ; परत्वं चान्यत्वं तच्चैकान्तभेदाऽविनाभावि। किश्च पदार्थेभ्यः सामान्यविशेषयोरेकान्तभिन्नत्वे स्वीक्रियमाणे एकवस्तुविषयमनुवृत्तिव्यावृत्तिरूपं प्रत्ययद्वयं नोपपद्येत । एकान्ताभेदे चान्यतरस्यासत्त्वप्रसङ्गः, सामान्यविशेषव्यवहाराऽभावश्च स्यात् । सामा-18 8 न्यविशेषोभयात्मकत्वेनैव वस्तुनः प्रमाणेन प्रतीतेः । परस्परनिरपेक्षपक्षस्तु पुरस्तानिर्लोठयिष्यते । अत एव । तेषां वादिनां स्खलनक्रिययोपहसनीयत्वमभिव्यज्यते । यो ह्यन्यथास्थितं वस्तुस्वरूपमन्यथैव प्रतिपद्यमानः परेभ्यश्च तथैव प्रज्ञापयन् स्वयं नष्टः परान्नाशयति, न खलु तस्मादन्य उपहासपात्रम् । इति वृत्तार्थः ॥ ४ ॥ __अथ तदभिमतावेकान्तनित्यानित्यपक्षौ दूपयन्नाह-- आदीपमाऽऽव्योम समस्वभावं स्याद्वादमुद्राऽनतिभेदि वस्तु। तन्नित्यमेवैकमनित्यमन्यदिति त्वदाज्ञाद्विषतां प्रलापाः॥५॥ व्याख्या-आदीप-दीपादारभ्य, आव्योम-व्योम मर्यादीकृत्य, सर्व वस्तु-पदार्थस्वरूपं, समस्वभाव-समः | तुल्यः, स्वभावः-- स्वरूपं यस्य तत्तथा । किञ्च वस्तुनः स्वरूपं द्रव्यपर्यायाऽऽत्मकत्वमिति ब्रूमः । तथा च १ अभिन्नभावेनेत्यर्थः। ॥१३॥ Jain Education Itional For Private & Personal Use Only w a elibrary.org
SR No.600050
Book TitleAnyayoga vyavaccheda dwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas T Seth, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy