SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ स्पा० ॥१२॥ व्यावृत्तिप्रत्ययौ स्वत एवं जनयन्ति । तथाहि घट एव तावत् पृथुवुनोदराद्याकारवान् प्रतीतिविषयीभवन् सन्नन्यानपि तदाकृतिभृतः पदार्थान् घटरूपतया, घटैकशब्दवाच्यतया च प्रत्याययन् सामान्याऽऽख्यां लभते । स एव चेतरेभ्यः सजातीयविजातीयेभ्यो द्रव्यक्षेत्रकालभावैरात्मानं व्यावर्तयन् विशेषव्यपदेशमनुते । इति न सामान्यविशेषयोः पृथक् पदार्थान्तरत्वकल्पनं न्याय्यम् ; पदार्थधर्मत्वेनैव तयोः प्रतीयमानत्वात् धर्माः धर्मिणः सकाशादत्यन्तं व्यतिरिक्ताः । एकान्तभेदे विशेषणविशेष्यभावाऽनुपपत्तेः करभारासभयोरिव धर्मधर्मिव्यपदेशाऽभावप्रसङ्गाच्च । धर्माणामपि च पृथकपदार्थान्तरत्वकल्पने एकस्मिन्नेव वस्तुनि पदार्थाऽऽनन्त्यप्रसङ्गः अनन्तधर्मकत्वाद् वस्तुनः । न च तदेवं सामान्यविशेषयोः स्वतत्त्वं यथावदनवबुध्यमाना अकुशलाः-अतन्त्राभिनिविष्टदृष्टयः, तीर्थान्तरीयाः; स्खलन्ति-न्यायमार्गाद् भ्रश्यन्ति, निरुत्तरीभवन्तीत्यर्थः । स्खलनेन चात्र प्रामाणिकजनोपहसनीयता ध्वन्यते । किं कुर्वाणाः ?, द्वयम् - अनुवृत्तिव्यावृत्तिलक्षणं प्रत्ययद्वयं वदन्तः । कस्मादेतत्प्रत्ययद्वयं वदन्तः १, इत्याह- परात्मतत्वात् -- परौ --पदार्थेभ्यो व्यतिरिक्तत्त्वादन्यौ, परस्परनिरपेक्षौ च यौ सामान्यविशेषौ तयोर्यदात्मतत्त्वं--स्वरूपम्, अनुवृत्तिव्यावृत्तिलक्षणं, तस्मात् तदाश्रित्येत्यर्थः; " गम्ययपः कर्माधारे" || २|२|७४॥ इत्यनेन पञ्चमी । कथंभूतात् परात्मतत्वाद् ?, इत्याह--अतथाऽऽत्मतत्त्वात् मा भूत् पराभिमतस्य परात्मतत्त्वस्य सत्यरूपतेति विशेषणमिदम् । यथा-- येनैकान्तभेदलक्षणेन प्रकारेण परैः प्रकल्पितं, न तथा तेन प्रका Jain Education Intonal For Private & Personal Use Only ॥१२॥ www.jalnelibrary.org
SR No.600050
Book TitleAnyayoga vyavaccheda dwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas T Seth, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy