SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ स्याद् | इति वृत्तार्थः ।। ३ ।। अथ यथावन्नयवर्त्म-विचारमेव प्रपञ्चयितुं पराभिप्रेततत्वानां प्रामाण्यं निराकुर्वन्नादितस्तावत्काव्यषद्केनौलूक्यमताभिमततत्त्वानि दूषयितुकामस्तदन्तःपातिनौ प्रथमतरं सामान्यविशेषौ दूषयन्नाह-- स्वतोऽनुवृत्तिव्यतिवृत्तिभाजो भावा न भावान्तरनेयरूपाः। परात्मतत्त्वादतथात्मतत्त्वाद् द्वयं वदन्तोऽकुशलाः स्खलन्ति ॥४॥ व्याख्या-अभवन् , भवन्ति, भविष्यन्ति चेति भावाः-पदार्थाः, आत्मपुद्गलादयस्ते खत इति-'सर्व | हि वाक्यं सावधारणमामनन्ति' इति स्वत एव--आत्मीयस्वरूपादेव, अनुवृत्तिव्यतिवृत्तिभाजः--एकाकारा | प्रतीतिरेकशब्दवाच्यता चानुवृत्तिः; व्यतिवृत्तिः-व्यावृत्तिः, सजातीयाविजातीयेभ्यः सर्वथा व्यवच्छेदः, ते ४ | उभे अपि संवलिते भजन्ते--आश्रयन्तीति अनुवृत्तिव्यतिवृत्तिभाजः, सामान्यविशेषोभयात्मका इत्यर्थः। . अस्यैवार्थस्य व्यतिरेकमाह-न भावान्तरनेयरूपा इति--नेति 'निषेधे। भावान्तराभ्यां--पराभिमताभ्यां द्रव्यगुणकर्मसमवायेभ्यः पदाथान्तराभ्यां, भावव्यतिरिक्तसामान्यविशेषाभ्यां नयं--प्रतीतिविषयं प्रापणीयं रूपं- यथासंख्यमनुवृत्तिव्यतिवृत्तिलक्षणं स्वरूपं येषां ते तथोक्ताः। स्वभाव एव ह्ययं सर्वभावानां यदनुवृत्ति निषेधवचनम्' इत्यपि पाठः । २ 'व्यावृत्तिलक्षणम्' इति च पाठः । 0000000000000००००००००००००००००००००००००००००० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600050
Book TitleAnyayoga vyavaccheda dwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas T Seth, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy