SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ स्यादू० थिकानां भगवदाज्ञाप्रतिपत्तिं प्रतिषिध्य स्तुतिकारो माध्यस्थ्यमिवाऽऽस्थाय, तान् प्रति हितशिक्षामुत्तरार्धेनो २ पदिशति-तथापि त्वदाज्ञाप्रतिपत्तेरभावेऽपि, लोचनानि-नेत्राणि, संमील्य-मिलितपुटीकृत्य,सत्यं -युक्तियुक्तं, ॥१०॥ | नयवर्त्म-न्यायमार्ग, विचारयन्तां--विमर्शविषयीकुर्वन्तु । ___अत्र च विचारयन्तामित्यात्मनेपदेन फलवत्कर्तृविषयेणैवं ज्ञापयत्याऽऽचार्यो यदवितथनयपथविचारणया | तेषामेव फलं, वयं केवलमुपदेष्टारः । किं तत्फलम् ?, इति चेत् : प्रेक्षावत्तेति ब्रूमः। संमील्य विलोचनानीति || | च वदतः प्रायस्तत्त्वविचारणमेकाग्रताहेतुनयननिमीलनपूर्वकं लोके प्रसिद्धमित्यभिप्रायः । अथवा अयमुपदे शस्तेभ्योऽरोचमान एवाऽऽचार्येण वितीर्यते; ततोऽस्वदमानोऽप्ययं कटुकौषधपानन्यायेनाऽऽयतिसुखत्वाद् | | भवद्भिर्नेत्रे निमील्य पेय एवेत्याकूतम् । ननु च यदि पारमेश्वरे वचसि तेषामविवेकातिरेकादरोचकता, तत्किमर्थं तान् प्रत्युपदेशक्लेश इति । नैवम् । परोपकारसारप्रवृत्तीनां महात्मनां प्रतिपाद्यगतां रुचिमरुचिं वाऽनपेक्ष्य हितोपदेशप्रवृत्तिदर्शनात् । तेषां हि परार्थस्यैव स्वार्थत्वेनाभिमतत्वात् । न च हितोपदेशादपरः पारमार्थिकः परार्थः । तथा चार्षम्"रूसउ वा परो, मा वा, विसं वा परियत्तउ । भासियव्वा हिया भासा सपक्खगुणकारिया" ॥१॥ उवाच च वाचकमुख्यः"न भवति धर्मः श्रोतुः सर्वस्यैकान्ततो हितश्रवणात् । अवतोऽनुग्रहबुद्ध्या वक्तुस्त्वेकान्ततो भवति" ॥१॥ ॥१०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600050
Book TitleAnyayoga vyavaccheda dwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas T Seth, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy