________________
स्याद्
॥९
॥
अथ प्रस्तुतगुणस्तुतिः सम्यकपरीक्षाक्षमाणां दिव्यदृशामेवौचितीमश्चति, नाग्दिशां भवादृशामित्याऽऽशङ्का विशेषणद्वारेण निराकरोति--यतोऽयं जनः परीक्षाविधिदुर्विदग्धः-अधिकृतगुणविशेषपरीक्षणविधौ दुर्विदग्ध:--पण्डितंमन्य इति यावत् । अयमाशयः-यद्यपि जगद्गुरोयथार्थवादित्वगुणपरीक्षणं मादृशां मतेरगोचरः, तथापि भक्तिश्रद्धाऽतिशयात् तस्यामहमात्मानं विदग्धमिव मन्य इति; विशुद्धश्रद्धाभक्तिव्यक्तिमात्रखरूपत्वात् स्तुतेः इति वृत्तार्थः ॥२॥ ___अथ ये कुतीर्थ्याः कुशास्त्रवासनावासितस्वान्ततया त्रिभुवनस्वामिनं स्वामित्वेन न प्रतिपन्नाः, तानपि तत्वविचारणां प्रति शिक्षयन्नाह
गुणेष्वसूयां दधतः परेऽमी मा शिश्रियन्नाम भवन्तमीशम् । तथापि संमील्य विलोचनानि विचारयन्तां नयवर्त्म सत्यम् ॥ ३॥
अमी इति–'अदसस्तु विप्रकृष्टे' इति वचनात् तत्त्वातत्त्वविमर्शबाह्यतया दूरीकरणाहत्वाद् विप्रकृष्टाः, परे-कुतीर्थिकाः, भवन्तं-त्वाम् , अनन्यसामान्यसकलगुणनिलयमपिमा ईशं शिश्रियन्-मा स्वामित्वेन प्रतिपद्यन्ताम् । यतो गुणेष्वसूयां दधतः गुणेषु बद्धमत्सराः; गुणेषु दोषाऽऽविष्करणं ह्यसूया; यो हि यत्र मत्सरी || भवति स तदाश्रयं नानुरुध्यते, यथा माधुर्यमत्सरी करभः पुण्हेक्षुकाण्डम् ; गुणाश्रयश्च भवान् । एवं परती--
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org