SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ स्याद्० ॥१६॥ तो 'विसातो वा एकस्मान्नभः प्रदेशात् प्रदेशान्तरमुपसर्पन्ति तदा तस्य व्योम्नस्तैरवगाहकैः सममेकस्मिन् प्रदेशे विभागः उत्तरस्पिश्च प्रदेशे संयोगः । संयोगविभागौ च परस्परं विरुद्धौ धर्मों, तद्भेदे चावश्यं धर्मिणो भेदः । तथा चाहु:-- “अयमेव हि भेदो, भेदहेतुर्वा यद्विरुद्धधर्माध्यासः, कारणभेदश्चेति" । ततश्च तदाकाशं पूर्वसंयोगविनाशलक्षण परिणामाऽऽपच्या विनष्टम्, उत्तरसंयोगोत्पादाख्यपरिणामानुभवाच्चोत्पन्नम् | उभयत्राऽऽकाश द्रव्यस्यानुगतत्वाच्चोत्पादव्यययोरेकाधिकरणत्वम् । " तथा च यद् “ अप्रच्युताऽनुत्पन्नस्थिरैकरूपं नित्यम् " इति नित्यलक्षणमाचक्षते, तदपास्तम् ; एवंविधस्य कस्यचिद्वस्तुनोऽभावात् । " तद्भावाऽव्ययं नित्यम् ” इति तु सत्यं नित्यलक्षणम् ; उत्पादविनाशयोः सद्भावेऽपि तद्भावाद् - अन्वयिरूपाद् यन्न व्येति तन्नित्यमिति तदर्थस्य घटमानत्वात् । यदि हि अमच्युतादिलक्षणं नित्यमिष्यते, तदोत्पादव्यययोर्निराधारत्वप्रसङ्गः । न च तयोर्योगे नित्यत्वहानिः ; " द्रव्यं पर्यायवियुतं पर्याया द्रव्यवर्जिताः । क्व कदा केन किंरूपा दृष्टा मानेन केन वा ?" ॥१॥ इति वचनात् । न चाकाशं न द्रव्यम् । लौकिकानामपि घटाकाशं पटाकाशमिति व्यवहारप्रसिद्धेराकाशस्य नित्याऽनित्यत्वम् । घटाकाश १ स्वभावतः । Jain Education Internal For Private & Personal Use Only ॥१६॥ www.elibrary.org
SR No.600050
Book TitleAnyayoga vyavaccheda dwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas T Seth, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy