SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ स्याद्० ।।१९१॥ नार्थक्रिया निर्वर्तनक्षमत्वम्, तदभावाच्च न वस्तुत्वं “यदेवाऽर्थक्रियाकारि तदेव परमार्थसद्” इति वचनात् । वर्तमानक्षणालिङ्गितं पुनर्वस्तुरूपं समस्तार्थक्रियासु व्याप्रियत इति तदेव पारमार्थिकम् । तदपि च निरंशमभ्युपगन्तव्यम् ; अंशव्याप्तेर्युक्तिरिक्तत्वात् ; एकस्य अनेकस्वभावतामन्तरेण अनेकस्वावयवव्यापनाऽयोगात् | अनेकस्वभावता एवाऽस्तु इति चेत् । न, विरोधव्याघ्राघातत्वात् । तथाहि - यदि एकः स्वभावः कथमनेकः ?, अनेकश्चेत्कथमेकः १, एकानेकयोः परस्परपरिहारेणाऽवस्थानात् । तस्मात् स्वरूपनिमनाः परमाणव एव परस्परोपसर्पणद्वारेण कथंचिन्निचयरूपतामापन्ना निखिलकार्येषु व्यापारभाज इति त एव स्वलक्षणं, न स्थूलतां धारयेत् पारमार्थिकमिति । एवमस्याऽभिप्रायेण यदेव स्वकीयं तदेव वस्तु, न परकीयम्; अनुपयोगित्वादिति । शब्दस्तु-रूढितो यावन्तो ध्वनयः कस्मिंश्चिदर्थे प्रवर्तन्ते यथा इन्द्र-शक्र पुरन्दरादयः सुरपतौ, तेषां सर्वेषामप्येकमर्थमभिप्रैति किल प्रतीतिवशाद् । यथा शब्दाऽव्यतिरेकोऽर्थस्य प्रतिपाद्यते, तथैव तस्यैकत्वत्वं वा प्रतिपादनीयम् । न च इन्द्र-शक्र पुरन्दरादयः पर्यायशब्दा विभिन्नार्थवाचितया कदाचन प्रतीयन्ते; तेभ्यः सर्वदा एकाकार परामर्शोत्पत्तेरस्खलितवृत्तितया तथैव व्यवहारदर्शनात् । तस्माद् एक एव पर्यायशब्दा| नामर्थ इति । शब्यते आहूयतेऽनेनाऽभिप्रायेणाऽर्थः इति निरुक्ताद् एकार्थप्रतिपादनाभिप्रायेणैव पर्यायध्व १ वस्तु इतिशेषः । Jain Education Intional For Private & Personal Use Only ww ॥१९१॥ elibrary.org
SR No.600050
Book TitleAnyayoga vyavaccheda dwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas T Seth, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy