SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ स्याद् व्यवहारस्त्वेवमाह- यथा लोकग्राहमेव वस्तु अस्तु, किमनया अदृष्टाऽव्यवहियमाणवस्तुपरिकल्पनकष्ट| पिष्टिकया ?, यदेव च लोकव्यवहारपथमवतरति तस्यैवाऽनुग्राहकं प्रमाणमुपलभ्यते; नेतरस्य । न हि सामान्यमनादिनिधनमेकं संग्रहाऽभिमतं प्रमाणभूमिः, तथाऽनुभवाऽभावात् , सर्वस्य सर्वदर्शित्वप्रसङ्गाच्च । || नापि विशेषाः परमाणुलक्षणाः क्षणक्षयिणः प्रमाणगोचराः, तथा प्रवृत्तेरभावात् । तस्माद् इदमेव निखिललोकाऽबाधितं प्रमाणप्रसिद्धं कियत्कालभाविस्थूलतामाविभ्राणमुदकाद्याऽऽहरणाद्यऽर्थक्रियानिर्वर्तनक्षम घटादिकं वस्तुरूपं पारमार्थिकम् । पूर्वोत्तरकालभावितत्पर्यायपर्यालोचना पुनरज्यायसी; तत्र प्रमाणप्रसरा| भावात् ; प्रमाणमन्तरेण च विचारस्य कर्तुमशक्यत्वात् । अवस्तुत्वाच्च तेषां किं तद्गोचरपर्यालोचनेन ?, तथाहि- पूर्वोत्तरकालभाविनो द्रव्यविवर्ताः, क्षणक्षयिपरमाणुलक्षणा वा विशेषा न कथंचन लोकव्यवहारमुपरचयन्ति । तन्न ते वस्तुरूपाः, लोकव्यवहारोपयोगिनामेव वस्तुत्वात् , अत एव 'पन्था गच्छति, कुण्डिका स्रवति, गिरिर्दह्यते, मश्चाः क्रोशन्ति' इत्यादिव्यवहाराणां प्रामाण्यम् । तथा च वाचकमुख्यः"लौकिकसम उपचारमायो विस्तृतार्थो व्यवहारः" इति । ऋजुसूत्रः पुनरिदं मन्यते- वर्तमानक्षणविवयैव वस्तुरूपम् , नाऽतीतमनागतं च । अतीतस्य विनष्टस्वाद् , अनागतस्याऽलब्धात्मलाभत्वात् खरविषाणादिभ्योऽविशिष्यमाणतया सकलशक्तिविरहरूपत्वाद् ॥१९९॥ १ तस्वार्थाधिगमे प्रथमाध्याय पञ्चत्रिंशस्य "आद्यशब्दौ द्वित्रिभेदी" इति सूत्रस्य भाष्ये । Jain Education ational For Private & Personal Use Only will helibrary.org
SR No.600050
Book TitleAnyayoga vyavaccheda dwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas T Seth, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy