SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ स्याद् ० ॥१७६।। इत्युपन्यस्ते परे उपालब्धारो भवन्ति, यथा सामान्य विशेष योर्विधिप्रतिषेधरूपयोर्विरुद्धधर्मयोरेकत्राऽभिन्ने व स्तुनि असंभवात् शीतोष्णवदिति विरोधः । न हि यदेव विधेरधिकरणं तदेव प्रतिषेधस्याऽधिकरणं भवितुमर्हति एकरूपतापत्तेः, ततो वैयधिकरण्यमपि भवति । अपरं येनाऽऽत्मना सामान्यस्याधिकरणं येन च विशेषस्य, तावप्यात्मानौ एकेनैव स्वभावेनाधिकरोति, द्वाभ्यां वा स्वभावाभ्याम् ? । एकेनैव चेत् । तत्र पूर्ववद् विरोधः, द्वाभ्यां वा स्वभावाभ्यां सामान्य विशेषाख्यं स्वभावद्वयमधिकरोति, तदाऽनवस्था - तावपि स्वभावान्तराभ्याम्, तावपि स्वभावान्तराभ्यामिति । येनात्मना सामान्यस्याऽधिकरणं तेन सामान्यस्य विशेषस्य चः येन च विशेषस्याधिकरणं तेन विशेषस्य सामान्यस्य चेति सङ्करदोषः । येन स्वभावेन, सामान्यं तेन विशेषः, येन विशेषस्तेन सामान्यमिति व्यतिकरः । ततश्च वस्तुनोऽसाधारणाऽऽकारेण निश्वेतुमशक्तेः संशयः । ततश्चाप्रतिपत्तिः । ततश्च प्रमाणविषयव्यवस्थाहानिरिति । एते च दोषाः स्याद्वादस्य जात्यन्तरत्वाद् निरवकाशा एव, अतः स्याद्वादमर्मवेदिभिरुद्धरणीयास्तत्तदुपपत्तिभिरिति । स्वतन्त्रतया निरपेक्षयोरेव सामान्य- विशेष - योर्विधि- प्रतिषेधरूपयोस्तेषामवकाशात् । अथवा विरोधशब्दोऽत्र दोषवांची, यथा विरुद्धमाचरतीति दृष्टमित्यर्थः । ततश्च विशेषेभ्यो विरोधवैयधिकरण्यादिदोषेभ्यो भीता इति व्याख्येयम् । एवं च सामान्यशब्देन सर्वा अपि दोषव्यक्तयः संगृहीता भवन्ति । इति काव्यार्थः ॥ Jain Education International For Private & Personal Use Only ॥१७६॥ www.jainelibrary.org
SR No.600050
Book TitleAnyayoga vyavaccheda dwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas T Seth, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy