SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ स्याद् ॥१७४|| | हेतुमाह- "उपाधिभेदोपहितम्" इति- उपाधयोऽवच्छेदका अंशप्रकाराः, तेषां भेदो नानात्वम् तेनोपहितम| र्पितम्- असत्त्वस्य विशेषणमेतत् उपाधिभेदोपहितं सदर्थेष्वसत्त्वं न विरुद्धम् , सदवाच्यतयोश्च वचनभेदं कृत्वा योजनीयम्- उपाधिभेदोपहिते सती सदवाच्यते अपि न विरुद्धे । . अयमभिप्रायः- परस्परपरिहारेण ये वर्तेते तयोः शीतोष्णवत् सहाऽनवस्थानलक्षणो विरोधः। न चाऽत्रैवम् सत्त्वाऽसत्वयोरितरेतरमविष्वग्भावेन वर्तनात् । न हि घटादौ सत्त्वमसत्त्वं परिहत्य वर्तते, पररूपेणाऽपि सत्त्वप्रसङ्गात् , तथा च तद्यतिरिक्तार्थान्तराणां नैरर्थक्यम् , तेनैव त्रिभुवनाऽर्थसाध्याऽर्थक्रियाणां सिद्धेः । न चाऽसत्त्वं सत्त्वं परिहृत्य वर्तते, स्वरूपेणाऽप्यसत्त्वप्राप्तेः, तथा च निरुपाख्यत्वात् सर्वशून्यतेति । तदा हि विरोधः स्याद्, यद्यकोपाधिकं सत्त्वमसत्त्वं च स्यात् । न चैवम् यतो न हि येनैवांऽशेन सत्त्वं तेनैवाऽसत्त्वमपि । किं त्वन्योपाधिकं सत्वम् , अन्योपाधिकं पुनरसत्त्वम्- स्वरूपेण हि सत्त्वं पररूपेण चासत्त्वम् । दृष्टं ह्येकस्मिन्नेव चित्रपटावयविनि अन्योपाधिकं तु नीलत्वम् , अन्योपाधिकाश्चेतरे वर्णाः- नीलत्वं हि नीलीरागाद्युपाधिकम् , वर्णान्तराणि च तत्तद्रञ्जनद्रव्योपाधिकानि । एवं मेचकरनेऽपि तत्तद्वर्णपुद्गलो| पाधिकं वैचित्र्यमवसेयम् । न चैभिदृष्टान्तैः सत्त्वासत्त्वयोभिन्नदेशत्वप्राप्तिः, चित्रपटाद्यवयविन एकत्वात् , | तत्रापि भिन्नदेशत्वाऽसिद्धेः । कथंचित्पक्षस्तु दृष्टान्ते दान्तिके च स्याद्वादिनां न दुर्लभः।। एवमप्यपरितोषश्चेद् आयुष्मतः, त कस्यैव पुंसस्तत्तदुपाधिभेदात् पितृत्व-पुत्रत्व-मातुलत्व-भागिनेय । Jain Education international For Private & Personal Use Only www.jainelibrary.org
SR No.600050
Book TitleAnyayoga vyavaccheda dwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas T Seth, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy