________________
स्याद्०
॥१६२॥
एकस्मिन् अपि प्रमाणे उपन्यस्ते उचितमेव बहुवचनम् । इति काव्यार्थः ॥
अनन्तरमनन्तधर्मात्मकत्वं वस्तुनि साध्यं मुकुलितमुक्तम्, तदेव सप्तभङ्गीप्ररूपणद्वारेण प्रपञ्चयन् भगवतो निरतिशयं वचनातिशयं च स्तुवन्नाह -
अपर्ययं वस्तु समस्यमानमद्रव्यमेतच्च विविच्यमानम् । आदेशभेदोदितसप्तभङ्गमदीदृशस्त्वं बुधरूपवेद्यम् ॥ २३ ॥
समस्यमानं संक्षेपेणोच्यमानं वस्तु, अपर्ययमविवक्षितपर्यायम् - वसन्ति गुणपर्याया अस्मिन्निति वस्तु- धर्मा-धर्माऽऽकाश-पुद्गल-काल- जीवलक्षणं द्रव्यषट्म् । अयमभिप्रायः- यदैकमेव वस्तु आत्मघटादिकं चेतनाचेतनं सतामपि पर्यायाणामविवक्षया द्रव्यरूपमेव वक्तुमिष्यतेः तदा संक्षेपेणाऽभ्यन्तरीकृतसकलपर्यायनिकायत्वलक्षणेनाऽभिधीयमानत्वात् अपयर्यमित्युपदिश्यते - केवलद्रव्यरूपमेव इत्यर्थः, यथाssत्माऽयं घटोsयमित्यादि; पर्यायाणां द्रव्याऽनतिरेकात्, अत एव द्रव्यास्तिकनयाः शुद्धसंग्रहादयो द्रव्यमात्रमेवेच्छन्ति, पर्यायाणां तदविष्वग्भूतत्वात् । पर्ययः पर्यवः, पर्याय, इत्यनर्थान्तरम् । अद्रव्यमित्यादिचः पुनरर्थे, स च पूर्वस्माद् विशेषद्योतने भिन्नक्रमश्च विविच्यमानं चेति, विवेकेन पृथग्रूपतयोच्यमानं ||१६२॥ पुनरेतद् वस्तु अद्रव्यमेव- अविवक्षितान्वयिद्रव्यं केवलपर्यायरूपमित्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org