________________
०००००००००
स्याद्
॥१५३||
तुशब्दः पूर्ववादिभ्यो भेदद्योतनार्थः- पूर्वेषां वादिनामास्तिकतया विप्रतिपत्तिस्थानेषु क्षोदः कृतः । नास्तिकस्य तु वक्तुमपि नौचिती, कुत एव तेन सह क्षोदः? इति तुशब्दार्थः। नास्ति परलोकः, पुण्यम् , पापम् , इति वा मतिरस्य "नास्तिकाऽऽस्तिकदैष्टिकम्" ॥६।४।६६॥ इति निपातनाद् नास्तिकः, तस्य नास्तिकस्य लोकायतिकस्य, वक्तुमपि न साम्प्रतं वचनमप्युच्चारयितुं नोचितम् , ततस्तूष्णीम्भाव एवाऽस्य || श्रेयान् दूरे प्रामाणिकपरिषदि प्रविश्य प्रमाणोपन्यासगोष्ठी।
वचनं हि परप्रत्यायनाय प्रतिपाद्यते । परेण चाप्रतिपित्सितमर्थं प्रतिपादयन् नाऽसौ सतामवधेयवचनो | भवति, उन्मत्तवत् । ननु कथमिव तूष्णीकतैवाऽस्य श्रेयसी ?, यावता चेष्टाविशेषादिना प्रतिपाद्यस्याऽभिप्रायमनुमाय सुकरमेवानेन वचनोच्चारणम् । इत्याशङ्कयाऽऽह- ‘क चेष्टा क दृष्टमानं च' इति । केति बृहदन्तरे, चेष्टा इङ्गितम्- पराभिप्रायरूपस्यानुमेयस्य लिङ्गम् । क च दृष्टमात्रम् । दर्शनं दृष्टं, भावे क्तः दृष्टमेव दृष्टमात्र प्रत्यक्षमात्रम् , तस्य लिङ्गनिरपेक्षप्रवृत्तित्वात् । अत एव दूरमन्तरमेतयोः । न हि | प्रत्यक्षेणाऽतीन्द्रियाः परचेतोवृत्तयः परिज्ञातुं शक्याः, तस्यन्द्रियकत्वात। मुखप्रसादादिचेष्टया तु लिङ्गभूतया : पराभिप्रायस्य निश्चये अनुमानप्रमाणमनिच्छतोऽपि तस्य बलादापतितम् । तथा हि- मद्वचनश्रवणाऽभिप्रायवानयं पुरुषः, तादृग्मुखप्रसादादिचेष्टाऽन्यथाऽनुपपत्तेरिति । अतश्च हहा ! प्रमादः-हहा इति खेदे | अहो ! तस्य प्रमादः प्रमत्तता, यदनुभूयमानमप्यनुमानं प्रत्यक्षमात्राङ्गीकारेणाऽपहृते । अत्र संपूर्वस्य ।
॥१५३॥
००००००००००००००००००००००००००००००००००००००००००००
Jain Education
letional
For Private & Personal Use Only
10linelibrary.org