SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ स्याद्० ॥१५४॥ | वेत्तेरकर्मकत्वे एवात्मनेपदम् , अत्र तु कर्मास्ति, तत्कथमत्रानश् ?। अत्रोच्यते- अत्र संवेदितुं शक्तः । | संविदान इति कार्यम् , “वयःशक्तिशीले" ॥५।२।२४॥ इति शक्तौ शानविधानात् । ततश्चायमर्थः-अनुमा- 18 नेन विना पराभिसंहितं सम्यग् वेदितुमशक्तस्येति । एवं परबुद्धिज्ञानाऽन्यथाऽनुपपत्याऽयमनुमानं हठाद् अङ्गीकारितः । तथा प्रकारान्तरेणाऽप्ययमङ्गीकारयितव्यः, तथा हि-चार्वाकः काश्चित् ज्ञानव्यक्तीः संवादित्वेनाऽव्यभिचारिणीरुपलभ्य, अन्याश्च विसंवादित्वेन व्यभिचारिणीः; पुनः कालान्तरे तादृशीतराणां ज्ञानव्यक्तीनामवश्यं प्रमाणतेतरते व्यवस्थापयेत् । न च सन्निहितार्थबलेनोत्पद्यमानं पूर्वापरपरामर्शशून्यं प्रत्यक्ष पूर्वापरकालभाविनीनां ज्ञानव्यक्तीनां प्रामाण्याऽप्रामाण्यव्यवस्थापकं निमित्तमुपलक्षयितुं क्षमते । न च | अयं स्वप्रतीतिगोचराणामपि ज्ञानव्यक्तीनां परं प्रति प्रामाण्यमप्रामाण्यं वा व्यवस्थापयितुं प्रभवति । तस्माद् | यथादृष्टज्ञानव्यक्तिसाधर्म्यद्वारेणेदानीन्तनज्ञानव्यक्तीनां प्रामाण्याप्रामाण्यव्यवस्थापकम् ; परप्रतिपादकं च | प्रमाणान्तरमनुमानरूपमुपासीत । परलोकादिनिषेधश्च न प्रत्यक्षमात्रेण शक्यः कर्तुम् , संनिहितमात्रविषयत्वात तस्य । परलोकादिकं चाप्रतिषिध्य नायं सुखमास्ते, प्रमाणान्तरं च नेच्छतीति डिम्भहेवाकः।। किश्च, प्रत्यक्षस्याऽप्यर्थाऽव्यभिचारादेव प्रामाण्यम् । कथमितरथा स्नान-पाना-ऽवगाहनाद्यर्थक्रियासमर्थे मरुमरीचिकानिचयचुम्बिनि जलज्ञाने न प्रामाण्यम् ? । तच्च अर्थप्रतिबद्धलिङ्गशब्दद्वारा समुन्म- १ प्रमाणता अप्रमाणता चेत्यर्थः । २ चार्वाकः । ३ प्रामाण्यम् । १५४॥ Jain Education Itional For Private & Personal Use Only waliorbelibrary.org
SR No.600050
Book TitleAnyayoga vyavaccheda dwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas T Seth, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy