SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ ॥१५२॥ स्याद् 8 थाऽन्धगजन्यायेन पल्लवग्राहिताप्रसङ्गात् । श्रयन्तीति वर्तमानान्तं केचित् पठन्ति, तत्राप्यऽदोषः। ____ अत्र च समुद्रस्थानीयः संसारः, पोतसमानं त्वच्छासनम् , कूपस्तम्भसन्निभः स्याद्वादः, पक्षिपोतोपमा || वादिनः, ते च स्वाभिमतपक्षप्ररूपणोड्डयनेन मुक्तिलक्षणतटमाप्तये कृतप्रयत्ना अपि तस्माद् इष्टार्थसिद्धि | मपश्यन्तो व्यानृत्य स्याद्वादरूपकूपस्तम्भालङ्कृततावकीनशासनप्रवहणोपर्सपणमेव यदि शरणीकुर्वते, तदा 2 तेषां भवार्णवाद् बहिनिष्क्रमणमनोरथः सफलतां कलयति, नाऽपरथा इति काव्यार्थः । एवं क्रियावादिनां प्रावादुकानां कतिपयकुग्रहनिग्रहं विधाय, साम्प्रतमक्रियावादिनां लोकायतिकानां 181 मतं सर्वाऽधमत्वादन्ते उपन्यस्यन् , तन्मतमूलस्य प्रत्यक्षप्रमाणस्यानुमानादिप्रमाणान्तरानङ्गीकारेऽकिश्चि- 18 करत्वप्रदर्शनेन तेषां प्रज्ञायाः प्रमादमादर्शयति विनाऽनुमानेन पराभिसन्धिमसंविदानस्य तु नास्तिकस्य न साम्प्रतं वक्तुमपि क चेष्टा क दृष्टमात्रं च हहा! प्रमादः ॥२०॥ प्रत्यक्षमेवैकं प्रमाणमिति मन्यते चार्वाकः । तत्र सनह्यते- अनु पश्चाद् लिङ्गसम्बन्धग्रहणस्मरणानन्तरम् , मीयते परिच्छिद्यते, देशकालस्वभावविप्रकृष्टोऽर्थोऽनेन ज्ञानविशेषेण, इत्यनुमान प्रस्तावात् स्वार्थानुमानम् , ॥१५२॥ तेनाऽनुमानेन लैङ्गिकममाणेन विना पराभिसन्धिं पराभिप्रायम् , असंघिदानस्य सम्यग् अजानानस्य Jain Education Itional For Private & Personal Use Only w h elibrary.org
SR No.600050
Book TitleAnyayoga vyavaccheda dwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas T Seth, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy