SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ चित्तसहभावी, स न वर्तमाने चेतस्युपकारं करोति- वर्तमानस्याऽशक्याऽपनेयोपनेयत्वेनाऽविकार्यत्वात् , स्थाद् | तद्धि यथाभूतं जायते तथाभूतं विनश्यतीति । नाप्यऽनागते उपकारं करोति; तेन सहाऽसंबद्धत्वात् , ॥१५॥ | असंबद्धं च न भावयतीत्युक्तम् । तस्मात् सौगतमते वासनाऽपि न घटते । अत्र च स्तुतिकारेणाऽभ्युपेत्याऽपि ताम, अन्वयिद्रव्यव्यवस्थापनाय भेदाभेदादिचर्चा विरचितेति भावनीयम्। अथोत्तरार्धव्याख्या- तत इति पक्षत्रयेऽपि दोषसद्भावात् त्वदुक्तानि भवद्वचनानि भेदाभेदस्याद्वाद| संवादपूतानि, परे कुतीर्थ्याः- प्रकरणाद् मायासूनवीयाः, श्रयन्तु आद्रियन्ताम् । अत्रोपमानमाह- तटादर्शीत्यादि-तटं न पश्यतीति तटाऽदर्शी, यः शकुन्तपोतः पक्षिशावकः,तस्य न्याय उदाहरणम् , तस्मात् । यथा किल कथमप्यपारपारावारान्तः पतितः काकादिशकुनिशावको बहिर्निर्जिगमिषया प्रवहणकूपस्तम्भादेस्तटप्राप्तये मुग्धतयोड्डीनः, समन्ताज्जलैकार्णवमेवाऽवलोकयंस्तटमदृष्ट्वैव निर्वेदाद् व्यावृत्य तदेव कूपस्तम्भादिस्थानमा श्रयते; गत्यन्तराऽभावात् , एवं तेऽपि कुतीर्थ्याः प्रागुक्तपक्षत्रयेऽपि वस्तुसिद्धिमनासादयन्तस्त्वदुक्तमेव चतुर्थ की भेदाभेदपक्षमनिच्छयाऽपि कक्षीकुर्वाणास्त्वच्छासनमेव प्रतिपद्यन्ताम् । न हि स्वस्य बलविकलतामाकलय्य | बलीयसः प्रभोः शरणाश्रयणं दोषपोषाय नीतिशालिनाम् । त्वदुक्तानीति बहुवचनं सर्वेषामपि तन्त्रान्तरी. याणां पदे पदेऽनेकान्तवादप्रतिपत्तिरेव यथाऽवस्थितपदार्थप्रतिपादनौपयिकं नान्यदिति ज्ञापनार्थम् अनन्तधर्मात्मकस्य सर्वस्य वस्तुनः सर्वनयात्मकेन स्याद्वादेन विना यथावद् ग्रहीतुमशक्यत्वात् , इतर ॥१५१॥ Jain Education ofational For Private & Personal Use Only wlodbelibrary.org
SR No.600050
Book TitleAnyayoga vyavaccheda dwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas T Seth, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy