________________
स्याद
॥१
इतिवचनस्य च का गतिः। एवमुत्पत्तिरुत्पादयति, स्थितिः स्थापयति, जरा जर्जरयति, विनाशो नाशयतीति चतुःक्षणिकं वस्तु प्रतिजानाना अपि प्रतिक्षेप्याः, क्षणचतुष्कानन्तरमपि निहितप्रत्युन्मार्गणादिव्यवहाराणां दर्शनात् । तदेवमनेकदोषापातेऽपि यः क्षणभङ्गमभिप्रैति, तस्य महत् साहसम् । इति काव्यार्थः।
अथ ताथागताः क्षणक्षयपक्षे सर्वव्यवहारानुपपत्ति परैरुद्भावितामाकर्ण्य, इत्थं प्रतिपादयिष्यन्ति यत्सर्वपदार्थानां क्षणिकत्वेऽपि वासनाबललब्धजन्मना ऐक्याध्यवसायेन ऐहिकाऽऽमुष्मिकव्यवहारप्रवृत्तेः कृतप्रणाशादिदोषा निरवकाशा एव, इति । तदाकूतं परिहतुकामस्तत्कल्पितवासनायाः क्षणपरम्परातो भेदाऽभेदानु. भयलक्षणे पक्षत्रयेऽप्यघटमानत्वं दर्शयन् स्वाभिप्रेतभेदाभेदस्यद्वादमकामयमानानपि तानङ्गीकारयितुमाह
सा वासना सा क्षणसन्ततिश्च नाऽभेद-भेदा-ऽनुभयैर्घटेते।
ततस्तटाऽदर्शिशकुन्तपोतन्यायात् त्वदुक्तानि परे श्रयन्तु ॥१९॥ ___सा शाक्यपरिकल्पिता, त्रुटितमुक्तावलीकल्पानां परस्परविशकलितानां क्षणानामन्योऽन्याऽनुस्यूतप्रत्य- 18 यजनिका, एकसूत्रस्थानीया सन्तानाऽपरपर्याया वासना । वासनेति- पूर्वज्ञानजनितामुत्तरज्ञाने शक्तिमाहुः ॥१४८।। साच, क्षणसन्ततिस्तद्दर्शनप्रसिद्धाः प्रदीपकलिकावत् नवनवोत्पद्यमानापरापरसदृशक्षणपरम्परा, एते द्वे अपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org