SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ स्याद् ० ॥ १४७॥॥ कर्पासे रक्तादृष्टान्तोऽस्तीति चेत् । तदसाधीयः, साधनदूषणयोरसंभवात्, तथाहि - अन्वयाद्यसंभवान्न साधनम् ; न हि कार्यकारणभावो यत्र तत्र स्मृतिः, कर्पासे रक्ततावदित्यन्वयः संभवति, नापि यत्र न स्मृतिस्तत्र न कार्यकारणभाव इति व्यतिरेकोऽस्ति । असिद्धत्वाद्यनुद्भावनाच्च न दूषणम् । न हि, 'ततोऽन्यत्वात्' इत्यस्य हेतोः 'कर्पासे रक्ततावत्' इत्यनेन कश्चिद्दोषः प्रतिपाद्यते । किञ्च यद्यन्यत्वेऽपि कार्यकारणभावेन स्मृतेरुत्पत्तिरिष्यते, तदा शिष्याचार्यादिबुद्धीनामपि कार्यकारणभा वसद्भावेन स्मृत्यादिः स्यात् । अथ नायं प्रसङ्गः, एकसंतानत्वे सतीति विशेषेणादिति चेत् । तदप्ययुक्तम्, पक्षाभ्यां तस्योपक्षीणत्वात् । क्षणपरम्परातस्तस्याऽभेदे हि क्षणपरम्परैव सा, तथा च संतान इति न किञ्चिदतिरिक्तमुक्तं स्यात् । भेदे तु पारमार्थिकः, अपारमार्थिको वाऽसौ स्यात् ? । अपारमार्थिकत्वेstr तदेव दूषणम् अकिञ्चित्करत्वात् । पारमार्थिकत्वे, स्थिरो वा स्यात्, क्षणिको वा ? । क्षणिकत्वे, संतानिनिर्विशेष एवायम् इति किमनेन स्तेनभीतस्य स्तेनान्तरशरणस्वीकरणकरणिना ? । स्थिरक्षेत् आत्मैव संज्ञाभेदतिरोहितः प्रतिपन्नः । इति न स्मृतिर्घटते क्षणक्षयवादिनाम् । तदभावे च अनुमानस्याSनुत्थानमित्युक्तं प्रागेव । अपि च, स्मृतेरभावे निहितप्रत्युन्मार्गण प्रर्त्यपणादिव्यवहारा विशीर्येरन् " इत एकनवते कल्पे शक्त्या मे पुरुषो हतः । तेन कर्मविपाकेन पादे विद्धोऽपि भिक्षवः !” ॥ १ ॥ १ एकनवत्याः पूरणस्तस्मिन् । Jain Education Intional For Private & Personal Use Only ॥॥ १४७॥ www.elibrary.org
SR No.600050
Book TitleAnyayoga vyavaccheda dwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas T Seth, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy