SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ स्याद् । सदृशारम्भणशक्तेरसदृशारम्भं प्रत्यशक्तेश्च, अकस्मादनुच्छेदात् । किं च, समलचित्तक्षणाः पूर्वे वरसपरिनि |र्वाणाः, अयमपूर्वो जातः सन्तानश्चैको न विद्यते, बन्धमोक्षो चैकाधिकरणौ; न विषयभेदेन वर्तेते। तत् कस्येयं ॥१४६॥ मुक्तिर्य एतदर्थ प्रयतते ? । अयं हि मोक्षशब्दो बन्धनविच्छेदपर्यायः।मोक्षश्च तस्यैव घटते यो बद्धः, क्षणक्ष | यवादे त्वन्यः क्षणो बद्धः, क्षणान्तरस्य च मुक्तिरिति प्राप्नोति मोक्षाऽभावः । A तथा स्मृतिभङ्गदोषः, तथा हि- पूर्वबुद्ध्याऽनुभूतेऽर्थे नोत्तरबुद्धीनां स्मृतिः संभवति, ततोऽन्यत्वात् , सन्तानान्तरबुद्धिवत् । न ह्यन्यदृष्टोऽर्थोऽन्येन स्मर्यते, अन्यथा एकेन दृष्टोऽर्थः सर्वैः स्मर्येत, स्मरणाऽभावे च कौतस्कुती प्रत्यभिज्ञाप्रसूतिः ?, तस्याः स्मरणानुभवोभयसंभवत्वात्- पदार्थप्रेक्षणप्रबुद्धप्राक्तन- 8 संस्कारस्य हि प्रमातुः स एवायमित्याकारेण इयमुत्पद्यते । अथ स्यादयं दोषः, यद्यविशेषेणाऽन्यदृष्टमन्यः | स्मरतीत्युच्यते । किन्तु, अन्यत्वेऽपि कार्यकारणभावाद् एव स्मृतिः, भिन्नसंतानबुद्धीनां तु कार्यकारणभावो नास्ति, तेन संतानान्तराणां स्मृतिनं भवति । न चैकसांतानिकीनामपि बुद्धीनां कार्यकारणभावो नास्ति, येन पूर्व बुद्ध्यनुभूतेऽर्थे तदुत्तरबुद्धीनां स्मृतिर्न स्यात् । तदप्यनवदातम् , एवमपि अन्यत्वस्य तदवस्थत्वात् , न हि कार्यकारणभावाभिधानेऽपि तदपगतं, क्षणिकत्वेन सर्वासां भिन्नत्वात् । न हि कार्यकारणभावात् ॥१४६॥ ४ स्मृतिरित्यत्रोभयप्रसिद्धोऽस्ति दृष्टान्तः। अथ ____“यस्मिन्नेव हि सन्ताने आहिता कर्मवासना । फलं तत्रैव संधत्ते कसे रक्तता यथा" ॥१॥ इति । 60०००००००००००००००००००००००००००००००००००००००००० Jain Education National For Private & Personal Use Only W inelibrary.org
SR No.600050
Book TitleAnyayoga vyavaccheda dwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas T Seth, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy