________________
स्याद्
यच्च, अहंप्रत्ययस्य कादाचित्कत्वम् , तत्रेयं वासना-आत्मा तावदुपयोगलक्षणः, स च साकाराऽनाकारो
पयोगयोरन्यतरस्मिनियमेनोपयुक्त एव भवति । अहंप्रत्ययोऽपि चोपयोगविशेष एव, तस्य च कर्मक्षयो॥१३९॥
पशमवैचित्र्यात् इन्द्रियानिन्द्रियालोकविषयादिनिमित्तसव्यपेक्षतया प्रवर्त्तमानस्य कादाचित्कत्वमुपपन्नमेव । यथा-बीजं सत्यामप्यऽङ्कुरोपजननशक्तौ पृथिव्युदकादिसहकारिकारणकलापसमवहितमेवाऽङ्करं जनयति; नान्यथा । न चैतावता तस्याङ्कुरोत्पादने कादाचित्केऽपि तदुत्पादनशक्तिरपि कादाचित्की; तस्याः कथंचिनित्यत्वात् । एवमात्मनः सदा सन्निहितत्वेऽप्यप्रत्ययस्य कादाचित्कत्वम् ।।
___यदप्युक्तम्- तस्याऽव्यभिचारि लिङ्गं किमपि नोपलभ्यत इति । तदप्यसारं साध्याऽविनाभाविनोऽनेकस्य || लिङ्गस्य तत्रोपलब्धेः, तथाहि- रूपाद्युपलब्धिः सकर्तृका, क्रियात्वात्, छिदिक्रियावत् ; यश्चास्याः कर्ता स आ
त्मा । न चात्र चक्षुरादीनां कर्तृत्वम् । तेषां कुठारादिवत् करणत्वेनाऽस्वतन्त्रत्वात् । करणत्वं चैषां पौद्गलिकत्वेनाऽचेतनत्वात्, परप्रेर्यत्वात्, प्रयोक्तृव्यापारनिरपेक्षप्रवृत्त्यभावात् । यदि हि, इन्द्रियाणामेव कर्तृत्वं स्यात्, तदा तेषु विनष्टेषु पूर्वाऽनुभूतार्थस्मृतेः, मया दृष्टम्, स्पृष्टम्, प्रातम्, आस्वादितम्, श्रुतम्' इतिप्रत्ययानामेककर्तृकत्वप्रतिप| तेश्च कुतः संभवः । किञ्च, इन्द्रियाणां स्वस्वविषयनियतत्वेन रूपरसयोः साहचर्यप्रतीतौ न सामर्थ्यम् । अस्ति च, तथाविधफलादे रूपग्रहणानन्तरं तत्सहचरितरसानुस्मरणम् , दन्तोदकसंप्लवाऽन्यथानुपपत्तेः । तस्मादुभयोर्गवाक्षकयोरन्तर्गतः प्रेक्षक इव, द्वाभ्यामिन्द्रियाभ्यां रूपरसयोदर्शी कश्चिदेकोऽनुमीयते । तस्मात्करणान्येतानि,यश्चैषां
॥१३९॥
Jain Education into onal
For Private & Personal Use Only
wwholelibrary.org