SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ स्याद् -- ॥११०॥ | वात्मकश्च ध्वनिर्वाचक इति । अन्यथा- प्रकारान्तरैः, पुनर्वाच्यवाचकभावव्यवस्थामातिष्ठमानानां वादिनां पतिभैव प्रमाद्यति, न तु तद्भणितयो युक्तिस्पर्शमात्रमपि सहन्ते । कानि तानि वाच्यवाचकभावप्रकारान्तराणि परवादिनामिति चेत्-एते ब्रूमः । “अपोह एव शब्दार्थ:" | इत्येके; "अपोहः, शब्दलिङ्गाभ्यां, न वस्तु विधिनोच्यते" इति वचनात् । अपरे च सामान्यमात्रमेव शब्दानां गोचरः, तस्य कचित् प्रतिपन्नस्य, एकरूपतया सर्वत्र संकेतविषयतोपपत्तेः। न पुनर्विशेषाः, तेषामानन्त्यतः का| स्न्येनोपलब्धुमशक्यतया तद्विषयताऽनुपपत्तेः । विधिवादिनस्तु-विधिरेव वाक्यार्थः अप्रवृत्तप्रवर्तनस्वभावत्वात् तस्येत्याचक्षते । विधिरपि- तत्तद्वादिविप्रतिपत्त्याऽनेकप्रकारः । तथाहि-वाक्यरूपः शब्द एव प्रवर्तकत्वाद् विधिरित्येके । तद्व्यापादो भावनाऽपरपर्यायो विधिरित्यन्ये । नियोग इत्यपरे। प्रैषादय इत्येके। तिरस्कृतत॥ दुपाधिप्रवर्तनामात्रमित्यन्ये । एवं फलतदभिलाषकर्मादयोऽपि वाच्याः। एतेषां निराकरणं सपूर्वोत्तरपक्षं न्याय8. कुमुदचन्द्रादवसेयमिति । इति काव्यार्थः ॥ १४ ॥ इदानीं सांख्याभिमतप्रकृतिपुरुषादितत्वानां विरोधावरुद्धत्वं ख्यापयन् , तद्वालिशताविलसितानामपरिमित्तत्वं दर्शयति चिदर्थशून्या च, जडा च बुद्धिः, शब्दादितन्मात्रजमम्बरादि। न बन्धमोक्षौ पुरुषस्य चेति, कियद जडै ग्रथितं विरोधि ? ॥१५॥ ४॥११०॥ Jain Education Bonal For Private & Personal Use Only wwe library.org
SR No.600050
Book TitleAnyayoga vyavaccheda dwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas T Seth, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy