SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ स्यादू ० ॥ १११ ॥ व्याख्या-चित्-चैतन्यशक्तिः, आत्मस्वरूपभूता; अर्थशून्या- विषयपरिच्छेदविरहिता; अर्थाध्यवसायस्य बुद्धिव्यापारत्वाद् - इत्येका कल्पना । बुद्धिश्च महत्तत्त्वाख्या; जडा, अनवबोधस्वरूपा -इति द्वितीया । अम्बरादि- व्योमप्रभृति भूतपञ्चकं, शब्दादितन्मात्रजम् - शब्दादीनि यानि पञ्च तन्मात्राणि सूक्ष्मसंज्ञानि तेभ्यो जातमुत्पन्नं, शब्दादितन्मात्रजम् - इति तृतीया । अत्र "च" शब्दो गम्यः । पुरुषस्य च प्रकृतिविकृत्यनात्मकस्यात्मनो न बन्धमोक्षौ, किन्तु प्रकृतेरेव । तथा च कापिलाः " तस्माद् न वध्यते नापि मुच्यते नापि संसरति कश्चित् । संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः " ॥१॥ तत्र बन्धः - प्राकृतिकादिः ; मोक्षः - पञ्चविंशतितत्त्वज्ञानपूर्वकोऽपवर्गः - इति चतुर्थी । इति शब्दस्य प्रकारार्थत्वाद् - एवंप्रकारमन्यदपि, विरोधीति विरुद्धं, पूर्वापरविरोधादिदोषाऽऽघातम् ; जडै:- मूर्खे:, तत्त्वावबोधविधुरधीभिः कापिलैः कियन्न ग्रथितं - कियद् न स्वशास्त्रेषूपनिबद्धम् । कियदित्यस्यागर्भम् ; तत्प्ररूपितविरुद्धार्थानामानन्त्येनेयत्ताऽनवधारणात् । इति संक्षेपार्थः व्यासार्थस्त्वयम् - साङ्ख्यमते किल दुःखत्रयाभिहतस्य पुरुषस्य तदपघात हेतु तत्त्वजिज्ञासा उत्पद्यते । आध्यात्मिकमाधिदैविकमाधिभौतिकं चेति दुःखत्रयम् । तत्राध्यात्मिकं द्विविधं - शारीरं मानसं च । शारीरं - वातपित्तश्लेष्मणां वैषम्यनिमित्तम् । मानसं - कामक्रोध लोभ मोहेर्ष्या विषयाऽदर्शननिबन्धनम् । सर्वं चैतदान्तरोपायसाध्यत्वादाध्यात्मिकं दुःखम् । बाह्योपायसाध्यं दुःखं द्वेधा- आधिभौतिकमाधिदैविकं चेति । तत्राधिभौ Jain Educationational For Private & Personal Use Only १११ ॥ inelibrary.org
SR No.600050
Book TitleAnyayoga vyavaccheda dwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas T Seth, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy