SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ स्याद्० 1 तथा वर्तमानः केन वार्यते ?; भवन्ति हि वक्तारो योगिनः- शरीरं प्रति घट इति; संकेतानां पुरुषेच्छाधीनत 18 याऽनियतत्वात् । यथा चौरशब्दोऽन्यत्र तस्करे रूढोऽपि, दाक्षिणात्यानामोदने प्रसिद्धः। यथा च-कुमारशब्दः ॥१०९॥ पूर्वदेशे आश्विनमासे रूढः । एवं कर्कटीशब्दादयोऽपि तत्तद्देशापेक्षया योन्यादिवाचका ज्ञेयाः । कालापेक्षया पुनर्यथा जैनानां प्रायश्चित्तविधौ धृतिश्रद्धासंहननादिमति प्राचीनकाले, षड्गुरुशब्देन- शतमशीत्यधिकमु. पवासानामुच्यते स्म, सांप्रतकाले तु, तद्विपरीते तेनैव षड्गुरुशब्देन-उपवासत्रयमेव सङ्केत्यते, जीतकल्पव्य-8 वहारानुसारात् । शास्त्रापेक्षया तु यथा पुराणेषु- द्वादशीशब्देनैकादशी; त्रिपुरार्णवे च-अलिशब्देन मदिराभिपक्तम् । च, मैथुनशब्देन मधुसर्पिषोग्रहणम् । इत्यादि । न चैवं सङ्केतस्यैवार्थप्रत्यायने प्राधान्यं स्वाभाविकसामर्थ्यसाचिव्यादेव तत्र तस्य प्रवृत्तेः, सर्व| शब्दानां सर्वार्थप्रत्यायनशक्तियुक्तत्वात् । यत्र च देशकालादौ यदर्थप्रतिपादनशक्तिसहकारी संकेतस्तत्र । तमर्थ प्रतिपादयति । तथा च निर्जितदुर्जयपरप्रवादाः श्रीदेवमूरिपादाः- “ स्वाभाविकसामर्थ्यसमयाभ्यामर्थबोधनिबन्धनं | शब्दः" । अत्र शक्तिपदार्थसमर्थनं ग्रन्थान्तरादवसेयम् । अतोऽन्यथेत्यादि उत्तरार्दै पूर्ववत् ।। प्रतिभाप्रमादस्तुIs तेषां सदसदेकान्ते वाच्यस्य प्रतिनियतार्थविषयत्वे च वाचकस्य; उक्तयुक्त्या दोषसद्भावाद् व्यवहारानुपपत्तेः। । ॥१०९॥ ४ तदयं समुदायार्थः- सामान्यविशेषात्मकस्य, भावाभावात्मकस्य च वस्तुनः-सामान्यविशेषात्मको, भावाभा Jain Education national For Private & Personal Use Only w Sinelibrary.org
SR No.600050
Book TitleAnyayoga vyavaccheda dwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas T Seth, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy