SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ स्याद्० ॥१०७॥ पदार्थविशेषो घट इत्युच्यते । तेषां च सजातीयविजातीयानां स्वरूपं तत्र बुद्ध्या आरोप्य व्यवच्छिद्यते; अन्यथा प्रतिनियत तत्स्वरूपपरिच्छेदानुपपत्तेः । सर्वभावानां हि भावाभावात्मकं स्वरूपम् । एकान्तभावात्मकत्वे वस्तुनो वैश्वरूप्यं स्यात् ; एकान्ताऽभावात्मकत्वे च निःस्वभावता स्यात् । तस्मात् स्वरूपेण सच्चात् पररूपेण चासत्त्वाद् भावाऽभावाऽऽत्मकं वस्तु । यदाह “ सर्वमस्ति स्वरूपेण, पररूपेण नास्ति च । अन्यथा सर्वसत्त्वं स्यात्, स्वरूपस्याप्यसंभवः " ॥ १ ॥ ततश्चैकस्मिन् घटे सर्वेषां घटव्यतिरिक्तपदार्थानामभावरूपेण वृत्तेरनेकात्मकत्वं घटस्य सूपपादम् । एवं चैकस्मिन्नर्थे ज्ञाते सर्वेषामर्थानां ज्ञानं सर्वपदार्थपरिच्छेदमन्तरेण तन्निषेधात्मन एकस्य वस्तुनो विविक्ततया परिच्छेदासंभवात् । आगमोऽप्येवमेव व्यवस्थितः - " “जे एगं जाणइ से सर्व जाण । जे सव्वं जाणइ से एगं जाणइ “एको भावः सर्वथा येन दृष्टः सर्वे भावाः सर्वथा तेन दृष्टाः । तथा Jain Education Intional सर्वे भवाः सर्वथा येन दृष्टा एको भावः सर्वथा तेन दृष्टः " ॥ १ ॥ ये तु सौगताः पराऽसत्त्वं नाङ्गीकुर्वते, तेषां घटादेः सर्वाऽऽत्मकत्वप्रसङ्गः । तथाहि - यथा घटस्य स्वरूपादिना सत्त्वं, तथा यदि पररूपादिनाऽपि स्यात्, तथा च सति स्वरूपादिसत्त्ववत् पररूपादिसत्त्वप्रसक्तेः कथं न For Private & Personal Use Only ॥१०७॥ inelibrary.org
SR No.600050
Book TitleAnyayoga vyavaccheda dwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas T Seth, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy