SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ स्याद् अत्रापि नित्यशब्दवादिसंमतः शब्दकत्वैकान्तः, अनित्यशब्दवाद्यभिमतः शब्दानेकत्वैकान्तश्च प्राग्दर्शि 18 तदिशा प्रतिक्षेप्यः । अथवा वाच्यस्य घटादेरर्थस्य सामान्यविशेषात्मकत्वे तद्वाचकस्य ध्वनेरपि तत्त्वम् ; शब्दा | र्थयोः कथञ्चित् तादात्म्याभ्युपगमात् । यदाहुर्भद्रबाहुस्खामिपादाः " अभिहाणं अभिहेयाउ होइ भिण्णं अभिणं च। खुरअग्गिमोयगुच्चारणम्हि जम्हा उ वयणसवणाणं॥१॥ __ नवि छेओ नवि दाहो ण पूरणं, तेण भिन्नं तु । जम्हा य मोयगुच्चारणम्हि तत्थेव पच्चओ होइ।।२।। ___ न य होइ स अन्नत्थे तेण अभिन्नं तदत्थाओ"। एतेन-"विकल्पयोनयः शब्दा विकल्पाः शब्दयोनयः। कार्यकारणता तेषां नार्थ शब्दाः स्पृशन्त्यपि"॥१॥ इति प्रत्युक्तम् ; अर्थाभिधानपत्ययास्तुल्यनामधेया इति वचनात् । शब्दस्य ह्येतदेव तत्त्वं- यदभिधेयं | l याथात्म्येनासौ प्रतिपादयति । स च- तत् तथा प्रतिपादयन् वाच्यखरूपपरिणामपरिणत एव वक्तुं शक्तः, 18 नान्यथा, अतिप्रसङ्गात् ; घटाभिधानकाले पटाद्यभिधानस्यापि प्राप्तेरिति। अथ वा भङ्गयन्तरेण सकलं काव्यमिदं व्याख्यायते- वाच्यं- वस्तु, घटादिकम् ; एकात्मकमेवएकस्वरूपमपि सत् , अनेकम्-अनेकखरूपम् । अयमर्थः- प्रमाता तावत् प्रमेयस्वरूपं लक्षणेन निश्चिनोति । ४ तच्च- सजातीयविजातीयव्यवच्छेदादात्मलाभ लभते । यथा घटस्य सजातीया मृन्मयपदार्थाः, विजातीयाश्च 18॥१०६॥ पटादयः; तेषां व्यवच्छेदस्तल्लक्षणम् । पृथुबुध्नोदराद्याकारः कम्बुग्रीवो जलधारणाऽऽहरणाऽऽदिक्रियासमर्थः Jain Education ellonal For Private & Personal Use Only www.jainelibrary.org
SR No.600050
Book TitleAnyayoga vyavaccheda dwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas T Seth, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy