________________
॥१०॥
स्याद् बोधो विविक्तोऽङ्गीकर्तव्यः । तस्मात् स्वस्वग्राहिणि ज्ञाने पृथक्षतिभासमानत्वाद् द्वावपीतरेतरविशकलितौ;
ततो न सामान्यविशेषाऽऽत्मकत्वं वस्तुनो घटते । इति स्वतन्त्रसामान्यविशेषवादः ।
तदेतत् पक्षत्रयमपि न क्षमते क्षोदम् : प्रमाणबाधितत्वात् । सामान्यविशेषोभयात्मकस्यैव (च) वस्तुनो निर्विगानमनुभूयमानत्वात् । वस्तुनो हि लक्षणम्--अर्थक्रियाकारित्वम् । तच्चाऽनेकान्तवादे एवाऽविकलं कल| यन्ति परीक्षकाः। तथाहि- यथा गौरित्युक्ते खुरककुत्सास्नालाङ्गलविषाणाद्यवयवसंपन्न वस्तुरूपं सर्वव्यक्त्यनुयायि प्रतीयते, तथा महिष्यादिव्यावृत्तिरपि प्रतीयते ।
यत्रापि च शबला गौरित्युच्यते, तत्रापि यथा विशेषप्रतिभासः, तथा गोत्वप्रतिभासोऽपि स्फुट एव । ॐ शबलेति केवलविशेषोच्चारणेऽपि. अर्थात् , प्रकरणाद् वा गोत्वमनुवर्तते। अपिच, शबलत्वमपि नानारूपम् ;
तथा दर्शनात् । ततो वक्त्रा शवलेत्युक्ते क्रोडीकृतसकलशबलसामान्यं विवक्षितगोव्यक्तिगतमेव शवलत्वं व्यवस्थाप्यते । तदेवमाबालगोपालं प्रतीतिप्रसिद्धेऽपि वस्तुनः सामान्यविशेषाऽऽत्मकत्वे, तदुभयैकान्तवादः प्रलापमात्रम् । नहि क्वचित् कदाचित् केनचित् सामान्यं विशेषविनाकृतमनुभूयते; विशेषा वा तद्विनाकृताः। केवलं दुर्नयप्रभावितमतिव्यामोहवशादेकमपलप्याऽन्यतरद् व्यवस्थापयन्ति बालिशाः; सोऽयमन्धगजन्यायः।
येऽपि च तदेकान्तपक्षोपनिपातिनः प्रागुक्ता दोषाः, तेऽप्यनेकान्तवादप्रचण्डमुद्गरप्रहारजर्जरितत्वाद्
२॥१०॥
Jain Education
clonal
For Private & Personal Use Only
waipelibrary.org
॥