SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ स्याद अथाऽनेक गोत्वाऽश्वत्वघटत्वपटत्वादिभेदभिन्नत्वात् (ते),तर्हि विशेषा एव स्वीकृताः; अन्योऽन्यव्यावृत्ति४ हेतुत्वात् । न हि यद् गोत्वं तदश्वत्वाऽऽत्मकमिति । अर्थक्रियाकारित्वं च वस्तुनो लक्षणम् ; तच्च विशेषेष्वेव स्फुटं ॥१०॥ प्रतीयते नहि सामान्येन काचिदर्थक्रिया क्रियते; तस्य निष्क्रियत्वात् ; वाहदोहादिकासु-अर्थक्रियासु विशे-1 षाणामेवोपयोगात् । तथेदं सामान्य विशेषेभ्यो भिन्नमभिन्नं वा ? | भिन्नं चेद्-अवस्तु विशेषविश्लेषेणार्थक्रियाकारित्वाऽभावात् । अभिन्नं चेद्-विशेषा एव, तत्स्वरूपवत् । इति विशेषकान्तवादः। नैगमनयाऽनुगामिनस्त्वाहुः- स्वतन्त्रौ सामान्यविशेषौ ; तथैव प्रमाणेन प्रतीतत्वात् । तथाहिसामान्यविशेषावत्यन्तभिन्नौ, विरुद्धधर्माध्यासितत्वात् , यावेवं तावेवं, यथा पाथःपावको, तथा चैतौ, की तस्मात् तथा। सामान्यं हि गोत्वादि सर्वगतम् । तद्विपरीताश्च शवलशाबलेयादयो विशेषाः। ततः कथमेषा| मैक्यं युक्तम् । न सामान्यात पृथग विशेषस्योपलम्भ इति चेत् । कथं तर्हि तस्योपलम्भ इति वाच्यम् । सामान्यव्याप्तस्ये1| ति चेद्-न तर्हि स विशेषोपलम्भः; सामान्यस्यापि तेन ग्रहणात्--ततश्च तेन बोधने विविक्तविशेषग्रहणाऽभावात् तद्वाचकं ध्वनि तत्साध्यं च व्यवहारं न प्रवर्तयेत् प्रमाता ; न चैतदस्ति ; विशेषाभिधानव्यवहारयोः प्रवृत्ति1 दर्शनात् । तस्माद् विशेषमभिलषता, तत्र च व्यवहारं प्रवर्तयता तद्ग्राहको बोधो विविक्तोऽभ्युपगन्तव्यः । एवं सामान्यस्थाने विशेषशब्दं, विशेषस्थाने च सामान्यशब्दं प्रयुञ्जानेन सामान्येऽपि तद्ग्राहको 400600000000000000000000000000000000000000000 - १०१॥ Jain Education onal For Private & Personal Use Only win- belibrary.org
SR No.600050
Book TitleAnyayoga vyavaccheda dwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas T Seth, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy