SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ स्याद् थाऽनुपपत्तेयावत्या भाष्यम् । व्यावृत्तेरपि च व्यावृत्तौ विशेषाणामभाव एव स्यात् । तत्स्वरूपभूताया व्या वृत्तेः प्रतिषिद्धत्वात् , अनवस्थापाताच्च । एका चेत्-सामान्यमेव संज्ञाऽन्तरेण प्रतिपन्नं स्यात् , अनुवृत्तिप्रत्य॥१०॥ यलक्षणाऽव्यभिचारात् । किञ्च, अमी विशेषाः- सामान्याद् भिन्ना अभिन्ना वा । भिन्नाश्चेद्-मण्डूकजटाS भारानुकाराः। अभिन्नाश्चेत्-तदेव, तत्स्वरूपवत् । इति सामान्यैकान्तवादः। पर्यायनयान्वयिनस्तु भाषन्ते- विविक्ताः क्षणक्षयिणो विशेषा एव परमार्थः । ततो विष्वग्भूतस्य सामान्यस्याऽप्रतीयमानत्वात् । नहि गवादिव्यक्तयनुभवकाले वर्णसंस्थानात्मकं व्यक्तिरूपमपहाया, अन्यकिश्चिदेकमनुयायि प्रत्यक्ष प्रतिभासते; तादृशस्यानुभवाभावात् । तथा च पठन्ति ___ "एतासु पश्चस्ववभासिनीषु प्रत्यक्षबोधे स्फुटमङ्गुलीषु । साधारणं रूपमवेक्षते यः, भृङ्गं शिरस्यात्मन ईक्षते सः " ॥१॥ ___ एकाकारपरामर्शप्रत्ययस्तु स्वहेतुदत्तशक्तिभ्यो व्यक्तिभ्य एवोल्पद्यते; इति न तेन सामान्यसाधनं न्याय्यम् । किच, यदिदं सामान्यं परिकल्प्यते- सदेकमनेकं वा । एकमपि-- सर्वगतमसर्वगतं वा। सर्वगतं चेत्किं न व्यक्त्यन्तरालेखूपलभ्यते ?। सर्वगतैकत्वाऽभ्युपगमे च तस्य- यथा गोत्वसामान्य गोध्यक्तीः क्रोडीकरोति, || 2 एवं किं न घटपटादिव्यक्तीरपि ?, अविशेषात् । असर्वगतं चेद्- विशेषरूपाऽऽपत्तिः, अभ्युपगमबाधश्च । ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ ॥१०॥ Jain Education International For Private & Personal Use Only W allhelibrary.org
SR No.600050
Book TitleAnyayoga vyavaccheda dwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas T Seth, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy