SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ स्याद् ॥९३॥ साधयितुं शक्यम् , अवस्तुत्वात् । अभिन्नं चेत् , प्रपञ्चस्वभावतया तस्यापि मिथ्यारूपत्वाऽऽपत्तिः, मिथ्यारूपं च तत् कथं स्वसाध्यसाधनायाऽलम् । एवं च प्रपञ्चस्यापि मिथ्यारूपत्वाऽसिद्धेः कथं परमब्रह्मणस्तात्त्वि| कत्वं स्यात् ?, यतो बाह्यार्थाभावो भवेदिति ।। ___अथवा प्रकारान्तरेण सन्मात्रलक्षणस्य परमब्रह्मणः साधनं, दूषणं चोपन्यस्यते-ननु परमब्रह्मण एवैकस्य परमार्थसतो विधिरूपस्य विद्यमानत्वात् प्रमाणविषयत्वम् ; अपरस्य द्वितीयस्य कस्यचिदप्यभावात् । तथाहि-प्रत्यक्षं तदावेदकमस्ति; प्रत्यक्षं द्विधा भिद्यते- निर्विकल्पकसविकल्पकभेदात् । ततश्च निर्विकल्पकप्रत्यक्षात् सन्मात्रविषयात् तस्यैकस्यैव सिद्धिः । तथाचोक्तम् " अस्ति ह्यालोचनाज्ञानं प्रथमं निर्विकल्पकम् । वालमूकादिविज्ञानसदृशं शुद्धवस्तुजम्" ॥१॥ नच विधिवत् परस्परव्यावृत्तिरप्यध्यक्षत एव प्रतीयते-इति द्वैतसिद्धिः तस्य निषेधाविषयत्वात् ।। " आहुर्विधात प्रत्यक्षं न निषेदृ" इत्यादिवचनात् । यच्च सविकल्पकप्रत्यक्षं घटपटादिभेदसाधक, तदपि 81 सत्तारूपेणान्वितानामेव तेषां प्रकाशकत्वात् सत्ताऽद्वैतस्यैव साधकम् । सत्तायाश्च परमब्रह्मरूपत्वात् । तदुक्तम्- | " यदद्वैतं तद् ब्रह्मणो रूपम्" इति । ____ अनुमानादपि तत्सद्भावो विभाव्यत एव । तथाहि-विधिरेव तत्त्वं, प्रमेयत्वात् , यतः प्रमाणविषय- ||॥९॥ भूतोऽर्थः प्रमेयः; प्रमाणानां च प्रत्यक्षानुमानाऽऽगमोपमानार्थापत्तिसंज्ञकानां भावविषयत्वेनैव प्रवृत्तेः । Jain Education In Ional For Private & Personal Use Only linelibrary.org
SR No.600050
Book TitleAnyayoga vyavaccheda dwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas T Seth, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy