SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ स्याद ॥९ ॥ पदेशः श्रद्धीयताम् । । अथ मायाऽपि भविष्यति, अर्थक्रियासमर्थपदार्थोपदर्शनक्षमा च भविष्यति इति चेत् , तर्हि स्ववचनविरोधः; नहि भवति माता च वन्ध्या चेति । एनमेवार्थ हृदि निधायोत्तरार्धमाह- मायैव चेदित्यादि । | | ( अत्रैवकारोऽप्यर्थः, आपिश्च समुच्चयार्थः, अग्रेतनचकारश्च तथा; उभयोश्च समुच्चयार्थयोौंगपद्यद्योतकत्वं प्रतीतमेवः यथा रघुवंशे-" ते च प्रापुरुदन्वन्तं बुबुधे चादिपूरुषः" इति ) तदयं वाक्यार्थः- माया च भविष्यति, अर्थसहा च भविष्यति; अर्थसहा-अर्थक्रियासमर्थपदार्थोपदर्शनक्षमा, चेच्छब्दोज़ योज्यते-इति । चेत् एवं परमाशङ्कय तस्य ववचनविरोधमुद्भावयति-तक्कि भवत्परेषां माता च वन्ध्या च ? । किमितिसम्भावने । सम्भाव्यते एतत्- भवतो ये परे-प्रतिपक्षाः, तेषां भवत्परेषां- भवद्व्यतिरिक्तानां, भवदाज्ञापृथ| ग्भूतत्वेन तेषां वादिनां, यन्माता च भविष्यति, वन्ध्या च भविष्यतीत्युपहासः। माता हि प्रसवधर्मिणी | वनितोच्यते ; बन्ध्या च तद्विपरीता। ततश्च माता चेत् कथं वन्ध्या ?; वन्ध्या चेत् कथं माता । तदेवं मायाया | अवास्तव्या अप्यर्थसहत्वेऽङ्गीक्रियमाणे, प्रस्तुतवाक्यवत् स्पष्ट एव स्ववचनविरोधः । इति समासार्थः।। ___व्यासार्थस्त्वयम्- ते वादिन इदं प्रणिगदन्ति- तात्त्विकमात्मब्रह्मैवास्ति " सर्व स्खल्विदं ब्रह्म नेह नानास्ति किञ्चन । आरामं तस्य पश्यन्ति न तत्पश्यति कश्चन" ॥१॥ इति न्यायात् । अयं तु प्रपञ्चो मिथ्यारूपः, प्रतीयमानत्वात् , यदेवं तदेवम् , यथा शुक्तिशकले ॥९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600050
Book TitleAnyayoga vyavaccheda dwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas T Seth, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy