________________
स्याद्
॥८९॥
०००००००००००००००००००००००००००००००००००००००००
ज्ञानम् , 'इति न ज्ञानस्य ज्ञानाऽन्तरजेयता युक्तिं सहते । इति काव्यार्थः ॥ १२ ॥ ___ अथ ये ब्रह्माद्वैतवादिनोऽविद्याऽपरपर्यायमायावशात् प्रतिभासमानत्वेन विश्वत्रयवर्तिवस्तुमपञ्चमपारमार्थिक समर्थयन्ते, तन्मतमुपहसन्नाह
माया सती चेद् हयतत्त्वसिद्धिरथाऽसती हन्त ! कुतःप्रपञ्चः?। मायैव चेदर्थसहा च, तत्किं माता च वन्ध्या च भवत्परेषाम् ?॥१३॥ व्याख्या- तैर्वादिभिस्तात्त्विकाऽऽत्मब्रह्मव्यतिरिक्ता या माया-अविद्या प्रपञ्चहेतुः परिकल्पिता, सा 18 सद्रूपा असद्रूपा वा द्वयी गतिः। सती-सद्रूपा चेत् , तदा द्वयतत्त्वसिद्धिः-द्वाववयवौ यस्य तद् द्वयं, तथाविधं 8 यत् तत्त्वं-परमार्थः, तस्य सिद्धिः । अयमर्थः-एक तावत् त्वदभिमतं तात्त्विकमात्मब्रह्म, द्वितीया च माया || तत्त्वरूपाः सद्रूपतयाऽङ्गीक्रियमाणत्वात् । तथाचाद्वैतवादस्य मूले निहितः कुठारः। अथेति-पक्षान्तरद्योतने । यदि असती- गगनाम्भोजवदवस्तुरूपा सा माया, ततः, हन्त ! इत्युपदर्शने आश्चर्ये वा; कुतः प्रपञ्चः- अयं त्रिभुवनोदरविवरवर्तिपदार्थसार्थरूपप्रपश्चः कुतः?, न कुतोऽपि सम्भवीत्यर्थः; मायाया अवस्तुत्वेनाभ्युपगमात्, अवस्तुनश्च तुरङ्गशृङ्गस्येव सर्वोपाख्याविरहितस्य साक्षात्क्रियमाणेदृशविवर्तजननेऽसमर्थत्वात् । किलेन्द्रजालादो, मृगतृष्णादौ वा मायोपदर्शितार्थानामर्थक्रियायामसामर्थ्य दृष्टम् , अत्र तु तदुपलम्भात् कथं मायाव्य
॥८९॥
Jain Education Internal
For Private & Personal Use Only
nelibrary.org
all