SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ GRASSHOUSES सारोद्धारसूत्रवृत्त्योः पत्रिंशदुत्तरशततमद्वारे (२५५ पत्रे) स्वकायपरकायशस्त्रोपहतं प्रासुकं जलं साधूनां ग्रहणोचितं प्रत्यपादि, तथाहि___ "उसिणोदगं तिदंडु-कलिअं फासुअजलं च जइ कप्पं । नवरि गिलाणाइकए, पहरतिगोवरिवि धरिअवं ॥८८१॥ जायइ सचित्तया से, गिम्हम्मि पहरपंचगस्सुवरिं॥ चउपहरुवरि ससिरे, वासासु पुणो तिपहरुवारें ॥ ८८२॥ त्रिभिर्दण्डैः-उत्कालैः उत्कलितं-आवृत्तं यदुष्णोदकं, तथा यत् प्रासुक-स्वकायपरकायशस्खोपहतत्वेनाऽचित्तीभूतं जलं तदेव यतीनां कल्प्यं-ग्रहीतुं उचितं, इह किल प्रथमे दण्डे जायमाने कश्चित् परिणमति कश्चिन्न इति मिश्रः १, द्वितीये प्रभूतः परिणमति स्तोकोऽवतिष्ठते २, तृतीये तु सर्वोऽपि अपकायोऽचित्ती भवतीति दण्डत्रयग्रहणं, इदं च सर्वमपि प्रहरत्रयमध्ये एव उपभोक्तव्यं, प्रहरत्रयादूद्ध पुनः कालातिक्रान्तदोषसम्भवेन उपभोगानहत्वात् न धारणीयं, नवरं केवलं ग्लानादिकृते ग्लानवृद्धानां अर्थाय प्रहरत्रिकादपि ऊर्ध्व धर्तव्यं,-॥ ८८१॥ 'जायई' इत्यादि गाहा । जायते भवति सचित्तता 'सेत्ति, तस्य उष्णोदकस्य प्रासुकजलस्य वा ग्लानाद्यर्थ धृतस्य 'ग्रीष्मे' उष्णकाले प्रहरपश्चकस्योपरि-प्रहरपञ्च-3 कादर्द्ध कालस्याऽतिरूक्षत्वात् चिरेण एवं जीवसंसक्तिसद्भावात् , तथा शिशिरे-शीतकाले कालस्य स्निग्धत्वात् प्रहरचतुष्टयादवं सचित्तता भवति, "वर्षासु" वर्षाकाले पुनः कालस्याऽतिस्निग्धत्वात् प्रासुकीभूतमपि जलं भूयः प्रहरत्रयादूर्द्ध | सचित्तीभवति, तदूर्द्धमपि यदि ध्रियते तदा क्षारः प्रक्षेपणीयः-सर्जिकादिकं क्षेतव्यं, येन भूयः सचित्तं न भवतीति8 ॥८८२॥ इति ॥४॥ 89 Jain Education Interie For Private & Personal Use Only Netainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy