________________
सामाचारीशतकम्।
कसेल्लकपासुकपानीयाधिकार
॥४४॥
पौषध्यां (१४४ पत्रे) श्रीजिनप्रभसूरिभिः 'सुद्धविअड'त्ति, शुद्धविकटं उष्णोदकं १ वर्णान्तरादिप्राप्तं शुद्धजलं २ चेति, त वर्णान्तरादिप्राप्तजलस्य ग्राह्यत्वेन उक्तत्वात् । न च वाच्यं श्रीजिनप्रभसूरिभिः कस्य ग्रन्थस्य सम्मत्या व्याख्येयं व्यधा
वीति । श्रीकुलमण्डनसूरिकृतायां श्रीकल्पसूत्रावचूर्णों तथैव व्याख्यानात्, तथाहि__ "वासावासं पज्जोसविअस्स अट्टमभत्तिअस्स भिक्खुस्स कप्पंति तओ पाणगाई पडिगाहित्तए,तं जहा-आयामे वा १सोवीरे वा २ सुद्धविअडे वा ३ । अत्र 'सुद्धविअडत्ति, शुद्धविकटं उष्णोदकं १ वर्णान्तरादिप्राप्तं शुद्धजलं२ चेत्यादि ॥२॥ एवमेव श्रीयतिदिनचर्यासूत्रवृत्त्योरपि ( ६५ पत्रे )। तथाहि
"गिहिज्ज आरनालं आंबिलधोवणतिदंड उक्कलिअं। वण्णंतराइपत्तं, फासुअसलिलंपि तदभावे॥१०२॥ व्याख्या-पिण्डग्रहणसमये साधुः आरनालं-अवश्रावणं गृह्णीयात् १ आम्बिलं काञ्जिकं २ तन्दुलादिधावनजलं ३ त्रिदण्डोत्कलितं उष्णोदकं ४ वर्णान्तरादिप्राप्तं अन्यत् प्रासुकजलमपि ५ गृह्णीयादिति योगः, परं तदभावे-तस्य उष्णोदकस्याऽप्राप्तौ यदाहुः,-"उस्सेइम १ संसेइम २ तंदुल ३ तिल ४ तुस ५ जवोदगा ६ऽऽयामं ७।सोवीर ८ सुद्धविअडं ९ अंबड १० अंबाडय ११ कविढे १२॥१॥ माउलिंग १३ दक्खा १४ दाडिम १५ खजूर १६ नालियर १७ कयर १८ बयरफलं १९ । आमलय २० चिंचापाणगाई २१ पढमंगभणिआई ॥२॥ पुनः श्रीआचाराङ्गवृत्तौ शस्त्रपरिज्ञाऽध्ययने तृतीयोदेश के (४२ पत्रे ), तथाहिअतो यद्वाह्यशस्त्रसम्पर्कात् परिणामान्तरापन्नं वर्णादिभिः तत् अचित्तं साधुपरिभोगाय कल्पते इति ॥३॥ एवं प्रवचन
88
|॥४४॥
Jain Education Inter
For Private & Personal use only
A
jainelibrary.org