SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ इह व्यवहारचूादौ चतुर्दश्याः साक्षात् पाक्षिकत्वे दृश्यमाने पूर्णिमायाश्च क्वाऽपि आगमे साक्षाद् अदृश्यमानेऽपि ग्रन्थकृता आगमोक्तानि पूर्णिमायां इति यदुक्तं-तन्न ज्ञायते केनाऽपि अभिप्रायेण सम्प्रदायेन वा इति, परं एतस्मिन्नपि ग्रन्थे चतुर्थीपर्ववद् आचरितलक्षणोपेतत्वात् चतुर्दश्यां पाक्षिकादीनि अपि प्रमाणीकृतानि एव सन्तीति ॥" पुनस्तपागच्छीयश्रीरत्नशेखरसूरिभिः स्वकृतश्राद्धविधिकौमुद्यां अपि पञ्चधा प्रतिक्रमणस्य स्थानानि दर्शयद्भिः पाक्षिकप्रतिक्रमणं पक्षान्ते प्रोक्तं (४१० पत्रे ), तथाहिKI तच्च प्रतिक्रमणं पञ्चभेदं देवसिकं १ रात्रिकं २ पाक्षिकं ३ चातुर्मासिकं ४ सांवत्सरिकं ५ चेति, एतेषां काल उत्सर्गेण एवमुक्तः-"अद्धनिबुड्ढे बिंबे सुत्तं कहूंति गीअत्था । इयवयण पमाणेणं देवसिआवस्सए कालो ॥१॥” रात्रिकस्य एवं___ "आवस्सयस्स समए, निद्दामुई चयंति आयरिया। तह तं कुणंति जह दिसि पडिलेहाणंतरं सूरो ॥२॥" अपवादस्तु | दैवसिकं दिवसतृतीयप्रहरादनु अर्द्धरात्रं यावत् , योगशास्त्रवृत्तौ तु मध्याह्नादारभ्य अर्द्धरात्रं यावत् इत्युक्तं, रात्रिक अर्द्धरात्रादारभ्य मध्याहूं यावत् । उक्तं च-"उघाडा पोरसिं जाव, राइ अवस्सयचुण्णीए चेव । ववहाराभिप्पाया, भणंति पुण जाव पुरिमहूं ॥३॥ पाक्षिक १ चातुर्मासिक २ सांवत्सरिकाणि ३ तु पक्षाद्यन्ते च स्युः", इत्यादि । ॥ इति पूर्व पाक्षिकप्रतिक्रमणं पञ्चदश्यां आसीदिति विचारः ॥८॥ ननु-आत्मगच्छीयसाधुप्रमुखाणां कसेल्लकेन वर्णान्तरप्राप्तस्य पानीयस्य ग्रहणे प्रवृत्तिः भूयसी दृश्यते, सा किं सिद्धान्तादिमूला ?, किं वा स्वगच्छपरम्परायाता? उच्यते-सिद्धान्तादिमूला एव, कथमित्याह-श्रीकल्पसूत्रवृत्तौ सन्देहवि 37 LOCAISSEASOSASSASS For Private & Personal Use Only w Jain Education in .jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy