________________
सामाचा- रीशत
पूर्व पाक्षिकप्रतिक्रमणं पंचद श्याम् आसीत् इति | विचारः
॥४२॥
प्रतिक्रमणं, यथा चतुर्दश्यां तथा यथा अष्टम्यां न भवति तथा चतुर्दश्यां अपि मा भवतु, किंच चतुर्दश्यां पाक्षिकप्रति- क्रमणं अङ्गीकुर्वता सूत्रोक्तां पूर्णिमां विहाय चतुर्मासिकं अपि तत्र एव प्रतिक्रमणीयं, यतः चतुर्मासिके अष्टौ पक्षा भवन्ति ते च तन्मते चतुर्दश्यां एव पूर्णतां अगच्छन् , पाक्षिकस्य तत्र एव करणत्वात् , अथ चतुर्मासिकसंबन्धी पक्षः प्रतिपदः आरभ्यते पाक्षिकसंबन्धी तु अन्यत एव इति चेत् तर्हि कोऽयं अर्धजरतीन्यायः १ तथा च सति महान् सूत्रविरोधः तत्र ईदृग् अर्थस्य अदर्शनात् न युक्तं एव, ततश्च कृष्णचतुर्दशीरूपं इति चेत् तर्हि सकलमपि पूर्वोक्तं दूषणकदम्बकं तत्पश्चालग्नं अनुधावति, किंच एवं चतुर्दश्यां पाक्षिकप्रतिक्रमणं कुर्वतां पूर्णमास्यां चतुर्मासिकं आचरतां चतुर्मासिकसंबन्धि तपो बाध्यते स्थानाऽनवाप्ते पाक्षिकचतुर्मासिकयोः मध्यं दिनाभावात, ननु किमर्थं तहिनं ईक्षते ? उच्यते-पाक्षिके चतुर्थस्य करणात्, चतुर्मासिके षष्ठसंभवात् मध्यं दिनं अन्तरेण तच्च न घटते, तस्मात् युक्त्याऽपि पाक्षिकं पञ्चदश्यां एव युज्यते, पुनरपि प्रयोगो न चतुर्दश्यां पाक्षिकप्रतिक्रमणं अपूर्णपक्षत्वात. यत्र यत्र असंपूर्ण पक्षत्वं तत्र तत्र न पाक्षिकप्रतिक्रमण यथा दशम्यां, किंच श्रीकालिकाचार्यकथायां शतगाथाप्रमाणायां श्रीभावदेवसूरिकृतायां पक्षोपवासपारणे साधूनां अष्टमोत्तरपारणस्य प्रोक्तत्वात् पाक्षिकं पर्व पञ्चदश्यां एव आगतं, तथाहि| "मम अंतेउरी पक्खोववासपारणए जओ । साहूणं फासुहं भत्तं, होही उत्तरवारणे ॥ ८१॥ एवं पवं चउत्थीए, कयं कालगसूरिणा । एअं पज्जोसवणाकण्पं, सबसंघेण मनिअं॥ ८२ ॥ साहू पूआरओ लोओ, जाजो तप्पभिई तओ । साहू
84
॥४२॥
Jain Education Intel
FOE Private & Personal use only
w
w w.jainelibrary.org