SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte "औपपातिक सूत्रे साधुवर्णनाधिकारे 'पंताहारे' इत्यस्य वृत्तौ पर्युषितं वल्लचणकादीनि इति व्याख्यातमस्ति तथा च पर्युषितपूपिका भक्षणादराणां खाद्यादीनां तद्विषये दोषोद्धट्टनं कथं युक्तिमत् ? इति प्रश्नः, तत्रोत्तरं तत्र - " निप्पा वचणकमाई अंतं पंतं च होइ बावन्नं” इति बृहत्कल्पभाष्ये जिनकल्पिकाधिकारे, एतद्वृत्तौ च 'वावन्न शब्देन विनष्टमिति व्याख्यातमस्ति तत्त्वं तु तत्त्वविद्वेद्यम्, आत्मनां तु पर्युषिताग्रहणेऽविच्छिन्नवृद्धपरम्पराराधनं संसक्तिसद्भावे तद्दोषवर्जनं च गुणाय | एव इति बोध्यं ॥ ९॥ इत्याद्यक्षरैः श्रीहीरविजयसूरिभिरपि स्वगच्छीयसर्वगीतार्थं सम्मततया वृद्धपरम्परैव प्रमाणीकृता नाऽन्यत् किमपि, तथा पुनस्तपागच्छीय- श्रीमुनिसुन्दरसूरिकृत षडावश्यकबा लावबोधेऽपि “मज्जे महुम्मि मंसम्मि नवणीयम्मि” | इत्यादि गाथायां अभक्ष्यव्याख्यानाधिकारे चलितरसशब्देन कुथितान्नमेव व्याख्यातं न पर्युषितान्नं । तथा च तत्पाठः "चलितरस जे कुहिउअन्न १ चडवीस पहुररओ ओदनादिक २ सोलपहुर उपरुं दही ३” इत्यादि । पुनरप्याह कश्चित्-ननु-रात्रिरक्षितं प्रातर्वलचणकमाषादिद्विदलं गोधूममण्डकं च विनश्यति, ततश्चलिवरसत्वेन अभक्ष्यं भवेत्, कथंकारं सुविहितसाधुभिः गृह्यते ? उच्यते-सत्यं, अत्राऽयं परमार्थः, यदा यच्चलितरसं ज्ञायते तदा तन्न ग्राह्य| मेव, तत्राऽपि अयं निश्चयो नाऽस्ति यद् रात्रिरक्षितं प्रातर्वलचणकादि गोधूममण्डकादि विनश्यते एव, तद्दिनसत्कं नेति, | उभयथापि विरोधदर्शनात् कथं कदाचिच्छीतकालादौ रात्रिरक्षितमपि न विनश्यति? कदाचित्तु उष्णकालादौ तद्दिनसत्कवल्लादि गोधूममण्डकादि तत्कालमपि कस्यापि संयोगे विनश्यत् दृश्यते । तत आत्मनां गच्छे एषा सिद्धान्ताद्यक्ष 77 For Private & Personal Use Only w.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy